आर्च॒न्नत्र॑ म॒रुत॒ः सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।
वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ॥
आर्च॑न् । अत्र॑ । म॒रुतः॑ । सस्मि॑न् । आ॒जौ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ।
वृ॒त्रस्य॑ । यत् । भृ॒ष्टि॒ऽमता॑ । व॒धेन॑ । नि । त्वम् । इ॒न्द्र॒ । प्रति॑ । आ॒नम् । ज॒घन्थ॑ ॥
हे इंद्र त्वां मरुतोऽत्रास्मिन् संग्राम आर्चन् । प्रहर भगवो जहि वीरयस्व । ऐ ब्रा ३-२० । इत्यनेन वचनेनापूजयन् । सस्मिन् तस्मिन् यद्वा सर्व स्मिन्नाजौ संग्रामे विश्वे देवासस्ते सर्वे दानादिगुणयुक्ता मरुतस्त्वा त्वामन्वमदन् । अनुक्रमेण हर्षं प्रापयन् । यद्वा । त्वदीयमदानंतरं तेऽपि मदं प्राप्ताः । हे इंद्र त्वं यद्यदा भृष्टिमता । भ्रंशयति शत्रूनिति भृष्टिरश्रिः । तद्वता वधेन हननसाधनेन वज्रेण । अश्रिमत्त्वं च वज्रस्य ब्राह्मणे समाम्नातम् । वज्रो वा एष यद्यूपः सोऽप्वाश्रिः कर्तव्योऽष्टाश्रिर्वै वज्रः । ऐ ब्रा २-१ । इति । तेन वज्रेण वृत्रस्यानं प्रति आननं मुखं प्रति यद्वा श्वासहेतु घ्राणं प्रति नि जघंथ । नितरां प्राहार्षीः ॥ आर्चन् । अर्च पूजायाम् । भौवादिकः । आडागम उदात्तः । सस्मिन् । तदोः सः सौ । पा सू ७-२-१०६ । इति विधीयमानं सत्वं व्यत्ययेन सप्तम्यामपि द्रष्टव्यम् । यद्वा । सर्वस्मिन्नतैत्र वर्ण लोपो द्रष्टव्यः । देवासः । आज्जसेरसुक् । आनम् । आननम् । वर्णलोपश्छांदसः । यद्वा । अन प्राणने । अन्यतेऽनेनेत्यानम् । घ्राणम् । करणे घञ् । कर्षात्वत इत्यंतोदात्तत्वम् । जघंथ । हन हिंसागत्योः । थल्युपदेशेऽत्वत इतीट् प्रतिषेधः । अभ्यासाच्चेत्यभ्यासादुत्तरस्य हकारस्य घत्वम् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वं ॥ १५ ॥