अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे ।
यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥
अ॒स्मै । भी॒माय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उषः॑ । न । शु॒भ्रे॒ । आ । भ॒र॒ । पनी॑यसे ।
यस्य॑ । धाम॑ । श्रव॑से । नाम॑ । इ॒न्द्रि॒यम् । ज्योतिः॑ । अका॑रि । ह॒रितः॑ । न । अय॑से ॥
हे उष उषोदेवते शुभ्रे शोभने त्वं भीमाय शश्रूणां भयंकराय पनीयसेऽतिशयेन स्तोतव्यायास्मा इंद्रायाध्वरे हिंसारहितेऽस्मिन्यागे । नेति संप्रत्यर्थे । तथा च यास्कः । आस्त्युपमार्थस्य संप्रत्यर्थे प्रयोग इहेव निधेहि (नि ७-३१) इति । संप्रतीदानीं नमसा नमो हविर्लक्षणमन्नं समा भर । सम्यक् संपादय । धाम सर्वस्य धारकं नाम स्तोतृषु नमनशीलं प्रसिद्धं वेंद्रियमिंद्रत्वस्य परमैश्वर्यस्य लिंगं यस्येंद्रस्यैवंविधं ज्योतिः श्रवसेऽन्नाय हविर्लक्षणान्नलाभार्थमयस इतिस्तशो गमनायाकारि । क्रियते हरितो न । यथाश्वान्सादिनः । स्वाभिलषितदेशं गमयंति तद्वदिंद्रोऽपि स्वाभिमतहविर्लाभाय स्वकीयं तेजो गमयतीति भावः ॥ उषः । पादादित्वान्निघाताभावः । शुभ्रे । शुभ दीप्तौ । स्छायितंचीत्यादिना रक् । भर । हैग्रहोर्भ इति भत्वम् । द्व्यचोऽतस्तिङ इति दीर्घः । पनीयसे । पनतेः स्तुत्यर्थाद्बहुलवचनात्कर्मण्यसुन् । तस्मादातिशायनिक ईयसुनि टेरिति टलोपः । अकारि । छंदसि लुङ् लङ् लिट इति वर्तमाने कर्मणि लुङ् । यद्वृत्तयोगादनिघातः । आडागम उदात्तः । आयसे । आय गतावित्यस्माद्भावेऽसुन् ॥ ३ ॥