मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५९, ऋक् ६

संहिता

प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते ।
वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रं भेत् ॥

पदपाठः

प्र । नु । म॒हि॒ऽत्वम् । वृ॒ष॒भस्य॑ । वो॒च॒म् । यम् । पू॒रवः॑ । वृ॒त्र॒ऽहन॑म् । सच॑न्ते ।
वै॒श्वा॒न॒रः । दस्यु॑म् । अ॒ग्निः । ज॒घ॒न्वान् । अधू॑नोत् । काष्ठाः॑ । अव॑ । शम्ब॑रम् । भे॒त् ॥

सायणभाष्यम्

अत्र वैश्वानरशब्देन मध्यमस्थानस्थो वैद्युतोऽग्नि रभिधीयते । पूरव इति मनुष्यनाम । पूरवो मनुष्या वृत्रहणमावरकस्य मेघस्य हंतारं यं वैश्वानरं संचते । वर्षार्थिनः सेवंते । तस्य वृषभस्यापां वर्षितुर्वैश्वानरस्य महित्वं माहात्म्यं नु क्षिप्रं प्र वोचम् । प्रब्रवीमि । किं तदित्यत आह । आयं वैश्वानरोऽग्निर्दस्युं रसानां कर्मणां वोपक्षयिकारं राक्षसादिकं जघन्वान् । हतवान् । तथा काष्ठा अपो वृष्ट्युदकान्यधूनोत् । अधोमुखान्यपातयत् । शंबरं तं निरोधकारिणं मेघमव भेत् । अवाभिनत् ॥ वोचम् । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः । वच उमित्युमागमः । गुणः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । जघन्वान् । हंतेर्लिटः क्वसुः । अभ्यासाच्चेत्यभ्यासादुत्तरस्य हकारस्य घत्वम् । विभाषा गमहनेति विकल्पनादिडभावः । भेत् । भिदिर् विदारणे । लङि बहुलं छंदसीति विकरणस्य लुक् । हल् ङ्याब्भ्य इति तकारस्य लोपः । पूर्ववदडभावः ॥ अत्र निरुक्तम् । प्र ब्रवीमि तन्महित्त्वं महाभाग्यं वृषभस्य वर्हितुरपां यं पूरवः । पूरयितव्या मनुष्या वृत्रहणं मेघहनं सचंते सेवंते वर्षकामा दस्युर्दस्यतेः क्षयार्थादुपदस्यंत्यस्मिन्रसा उपदासयति कर्माणि तमग्निर्वैश्वानरो घ्नन्नवाधूनोदपः काष्ठा अभिनच्छंबरं मेघम् (नि ७-२३) इति ॥ अत्रेदं चिंतनीयम् । कोऽसौ वैश्वानर इति । तत्र केचिदाहुः । मध्यमस्थानस्थो वायुरिंद्रो वा वैश्वानरः । तस्य हि वर्षकर्मणा संस्तव उपपद्यते । न त्वग्नेः पृथिवीस्थानत्वादिति । अन्ये त्वेवं मन्यंते । द्युस्थानः सूर्यो वैश्वानर इति । युक्तिं चाहुः । पातःसवनादीनि त्रीणि सवनानि लोकत्रयात्मकानि । तत्र तृतीयसवनं प्राप्तो यजमानः । स्वर्गं प्राप्त इति पृथिव्याः प्रच्युतो भवेत् । तत्प्रच्युतिपरिहारायाग्नि मारुतेऽंतिमे शस्त्रे होता स्वर्गाद्भूमिं प्रत्यवरोहति । कथमिति तदुच्यते । इतरशस्त्रवत् । स्तोत्रियतृचेन प्रारंभमुक्त्वा द्युस्थानसंबंधिना वैश्वानरीयेण सूक्तेन शस्त्रं प्रारभते । ततो मध्यम स्थानसंबंधिनं रुद्रं मरुतश्च प्रति तद्देवत्य सूक्तपाठेनावरोहति । तत्र पृथिवीस्थानमग्निम् । यद्यत्र वैश्वानरः । सूर्यो न स्यात् तदानीमवरोहो नोपपद्यते । तदेतन्मतद्वयमप्यनुपपन्नम् । आयमेवाग्निर्वैश्वानरः । कुतः । वैश्वानरशब्दनिर्वचनानुरोधात् । विश्वेषां नराणां लोकांतरं प्रति नेतृतया संबंधी वैश्वानरः । तथा चाम्नातम् । वैश्वानर पुत्रः पित्रे लोकृज्जातवेदो वहेमं सुकृतां यत्र लोका इति । यद्वा । विश्वे सर्वे नरा एनमग्निं यज्ञादौ प्रणयंतीति तत्संबंधाद्वैश्वानरः । यद्वा । विश्वान् सर्वान्प्राणिनः प्रत्यृतो गच्छत इति वैश्वानरौ मध्यमोत्तमौ । ऋगतावित्यस्मात्पचाद्यच् । लुगभावश्छांदसः । शाभ्यामुत्पन्नत्वादयमग्निर्वैश्वानरः । वैद्युतोऽग्निर्हि मध्यमसकाशाज्जायते । अशनिपतनानंतरमयमेव पार्थिवोऽग्निः । संपद्यते । आदित्यसकाशादपि घर्मकाले सूर्यकांतादिमणिष्वग्नेरुत्पत्तिः प्रसिद्धा । तस्मान्नामनिर्वचनानुरोधेनायमेवाग्नर्वैश्वानर इत्येतदुपपन्नम् । अस्यापि वर्ष कर्मणा स्तुतिः संभवति । अग्नौ प्राप्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । मनु ३-७६ । इति स्मरणात् । प्रत्यवरोहेऽपि न कर्तव्यः । तृतीयसवनस्य भक्तस्वर्गत्वात् । एतत्सर्वं यास्केन वैश्वानरः कस्मादित्यादिना बहुधा प्रपंचितम् (नि ७-२१) अत्र यदनुक्तं तत्सर्वं तत्रैवानुसंधेयं ॥ ६ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५