द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्य॒ः स्तव॑मानेभिर॒र्कैः ।
भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसा॑ः ॥
द्वि॒ता । वि । व॒व्रे॒ । स॒ऽनजा॑ । सनी॑ळे॒ इति॒ सऽनी॑ळे । अ॒यास्यः॑ । स्तव॑मानेभिः । अ॒र्कैः ।
भगः॑ । न । मेने॒ इति॑ । प॒र॒मे । विऽओ॑मन् । अधा॑रयत् । रोद॑सी॒ इति॑ । सु॒ऽदंसाः॑ ॥
अयास्यः । यासः प्रयत्नः । तत्साध्यो यास्यः । न यास्योऽयास्यः । युद्धरूपैः प्रयत्नैः साधयितुमशक्य । इत्यर्थः । कथं साध्यत इत्यत आह । स्तवमानेभिः स्तोत्रं कुर्वद्भिः पुरुषैरर्कैः स्तुतिरूपैर्मंत्रैः स्तूयमानः सन्निंद्रः सुसाध्यो भवति । यद्वा । अयास्यः पंचवृत्तिर्मुख्यप्राणः । स ह्यास्यान्मुखादयते गच्छति निष्क्रामति । तदुपासकोऽप्यंगिरा उपचारादयास्य उच्यते । तथा च छंदोगैराम्नातम् । तं हायास्य उद्गीथमुपासां चक्र एतमु एवायास्यं मन्यंत आस्याद्यदयते तेन । छां उ १-२-१२ । इति । अथवा । अयमास्ये मुखे वर्तत इत्ययास्यः । तथा च वाजसनेयकम् । ते होचुः क्व नु सोऽभूद्यो न इत्थमस्तक्तेत्ययमास्येऽंतरिति । शत । ब्रा । १४-४-१-९ । इति । पूर्ववदुपासकोऽप्ययास्यः । तेन ऋषिणा स्तवमानेभिर्गुणिनिष्ठ गुणाभिधानलक्षणां स्तुतिं कुर्वद्भिरर्कैर्मंत्रैः करणभूतैः स्तूयमानः सन् सनजा । सनेति निपातो नित्यार्थः । नित्यजाते । सर्वदा विद्यमानस्वभावे इत्यर्थः । प्रथमभावविकारवाचिना जनिना द्वितीयो भावविकारः । सत्ता लक्ष्यते । यथौत्पत्तिकस्तु शब्दस्यार्थेन संबंध इत्यौत्पत्तिकमिति नित्यं ब्रूम इति हि तद्भाष्यम् । सनीळे समानं नीळमेको निवासस्थानं ययोस्ते । संलग्ने इत्यर्थः । एवंविधे द्यावापृथिव्यौ द्विता द्विधा वि वव्रे । विवृते अकरोत् । भेदेनास्थापयदित्यर्थः । मेने मननीये परम उत्कृष्टे व्योमन विविधरक्षणे नभसि वर्तमानो भगो न सूर्य इव सुदंसाः शोभनकर्मेंद्रो रोदसी द्यावापृथिव्यावधारयत् । अपोषयत् । यद्वा । मेनेति स्त्रीनाम । तथा च यास्कः । मेना ग्ना इति स्त्रीणां मेना मानयंत्येना इति (नि ३-२१) स्त्रीरूपमापन्ने रोदसी इंद्रोऽपुष्यदित्यर्थः ॥ द्विता । द्विधेत्यस्य धकारस्य तकारश्छांदसः । सनजा । जनी प्रादुर्भावे । अस्माद्भावेऽन्येष्वपि दृश्यत इति दृशिग्रहणस्य तकारश्छांदसः । सनजा । जनी प्रादुर्भावे । अस्माद्भावेऽन्येष्वपि दृश्यत इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थात्वात् केवलादपि जनेर्डप्रत्ययः । सना नित्यं जो जननं ययोस्ते सनजे । पूर्वपदस्य ह्रस्वश्छांदसः । एवमादित्वादंतोदात्तत्वम् । तदेव । बहुव्रीहिस्मरेण शिष्यते । सुपां सुलुगिति विभक्तेराकारः । अयास्यः । यसु प्रयत्ने । यासः प्रयत्नः । तत्र भवो यास्यः । भवे छंदसीति यत् । न यास्योऽयास्यः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । श्रुत्युक्तनिर्वचने तु पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । मेने । सप्तम्येकवचनस्य सुपां सुलुगिति शे आदेशः । शे (पा १-१-१३) इति प्रगृह्यत्वम् । यद्वा । मन्यत इति मेना । पचाद्यच् । नशिमन्योरलिट्येत्वं वक्तव्यम् । पा ६-४-१२०-५ । इत्येत्वम् । ततष्वाप् । द्विवचन ईदूदेद्द्विवचनम् (पा १-१-११) इति प्रगृह्यत्वम् । सुदंसाः । दंस इति कर्मवाची । असुन्प्रत्ययांत आद्युदात्तः । बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वं ॥ ७ ॥