स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय ।
सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
स॒ना॒ऽय॒ते । गोत॑मः । इ॒न्द्र॒ । नव्य॑म् । अत॑क्षत् । ब्रह्म॑ । ह॒रि॒ऽयोज॑नाय ।
सु॒ऽनी॒थाय॑ । नः॒ । श॒व॒सा॒न॒ । नो॒धाः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
स इंद्रः सनायते । नित्य इवाचरति । सर्वेषामाद्यो भवति । हे शवसान बलवन्निंद्र हरियोजनाय । हरी अश्वौ रथे योजयतीति हरियोजनः । सुनीथाय सुष्ठु नेत्रे । एवं भूताय तस्मै तुभ्यं गोमतो गोतमस्य ऋषेः पुत्रो नोधा ऋषिर्नव्यं नूतनं ब्रह्मैतत्सूक्तरूपं स्तोत्रं नोऽस्मदर्थमतक्षत् । अकरोत् । अतोऽस्माभिरनेन स्तोत्रेण स्तुतः सन्धिया बुद्ध्या कर्मणा वा प्राप्तवसुरिंद्रः प्रातःकाले मक्षु शीघ्रं जगम्यात् । आगच्छतु ॥ सनायते । सनेति निपातो नित्यशब्दसमानार्थः । तस्मादाचारार्थे क्यङ् प्रत्ययः । सुनीथाय । णीञ् प्रापण इत्यस्मादौणादिकस्थक्प्रत्ययः । थाथादिस्वरः ॥ १३ ॥