अका॑रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् ।
सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
अका॑रि । ते॒ । इ॒न्द्र॒ । गोत॑मेभिः । ब्रह्मा॑णि । आऽउ॑क्ता । नम॑सा । हरि॑ऽभ्याम् ।
सु॒ऽपेश॑सम् । वाज॑म् । आ । भ॒र॒ । नः॒ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
हे इंद्र ते तव गोतमेभिर्गंतृतमैरेतत्संज्ञैर्ऋषिभिरकारि । स्तोत्रं कृतमित्यर्थः । एतदेव स्पष्वीकरोति । ब्रह्माणि मंत्रजातानि नमसा हविर्लक्षणेनान्नेन सह हरिभ्यामश्वाभ्यां युक्ताय तुभ्यमोक्ता । आभिमुख्येनोक्तानि । यद्वा । मर्यादायामाकारः । यथाशास्त्रं प्रयुक्तानि । स त्वं सुपेशसम् । पेश इति रूपनाम । बहुविधरूपयुक्तं वाजमन्नं नोऽस्मभ्यमा भर । आहर । देहीति यावत् । धिया बुद्ध्या कर्मणा वा प्राप्तधन इंद्रः प्रातःकालेऽस्मिद्रक्षणार्थं जगम्यात् । आगच्छतु ॥ ओक्ता । शेश्छंदसि बहुलमिति शेर्लोपः । सुपेशसम् । पिश अवयवे । असुन् । बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । भर । हृग्रहोर्भ इति भत्वम् । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः ॥ ५ ॥ ॥ ९ ॥