मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७१, ऋक् २

संहिता

वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नङ्गि॑रसो॒ रवे॑ण ।
च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अह॒ः स्व॑र्विविदुः के॒तुमु॒स्राः ॥

पदपाठः

वी॒ळु । चि॒त् । दृ॒ळ्हा । पि॒तरः॑ । नः॒ । उ॒क्थैः । अद्रि॑म् । रु॒ज॒न् । अङ्गि॑रसः । रवे॑ण ।
च॒क्रुः । दि॒वः । बृ॒ह॒तः । गा॒तुम् । अ॒स्मे इति॑ । अह॒रिति॑ । स्वः॑ । वि॒वि॒दुः॒ । के॒तुम् । उ॒स्राः ॥

सायणभाष्यम्

नोऽस्माकं पितरोऽंगिरस एतत्संज्ञा उक्थैः शस्त्रेरग्निं स्तुत्वा वीळु चिद्दृळ्हा । वीळ्विति बलनाम । बलवंतं दृढांगमप्यद्रिमत्तारं पणिनामानमसुरं रवेण स्तुतिशब्दमात्रेणैव रुजन् । अभंजन् । तैः स्तुतोऽग्निस्तमसुरं हतवानित्यर्थः । किंच बृहतो महतो दिवो द्युलोकस्य गातुं मार्गमस्मे अस्माकं चक्रुः । कृतवंतः । अवरकस्यासुरस्याग्निना हतत्वात् । मार्गं कृत्वा च स्वः सुष्ठ्वरणीयमसुरराहित्येन सुखेन प्राप्यमहर्दिवसं विविदुः । अजानन् लब्धवंतो वा । तथा केतुमन्हां केतयितारं ज्ञापयितारमादित्यमुस्राः पणिनापहृाता गाश्च विविदुरित्यनुषंगः ॥ वीळु । सुपां सुलुगिति विभक्तेर्लुक् । दृळ्हा । दृढः स्थूलबलयोः (पा ७-२-२०) इति निपातितः । सुपां सुलुगिति डादेशः । रुजन् । रुजो भंगे । तौदादिकः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । विविदुः । विद ज्ञाने विद्लृलाभ इति वा । लिट्युसि रूपं ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५