मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७१, ऋक् १०

संहिता

मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् ।
नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ॥

पदपाठः

मा । नः॒ । अ॒ग्ने॒ । स॒ख्या । पित्र्या॑णि । प्र । म॒र्षि॒ष्ठाः॒ । अ॒भि । वि॒दुः । क॒विः । सन् ।
नभः॑ । न । रू॒पम् । ज॒रि॒मा । मि॒ना॒ति॒ । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अधि॑ । इ॒हि॒ ॥

सायणभाष्यम्

हे अग्ने पित्र्याणि पितरं वसिष्ठमुपक्रम्यागतानि सख्या सखित्वानि माप्र मर्षिष्ठाः । मा विनाशय । अत्र मृष्यतेरुपसर्गवशादर्थांतरे वृत्तिः । यतस्त्वं कविः क्रांतदर्शी सन् अभ्याभिमुख्येन विदुः सर्वं विद्वान् । नभो न रूपम् । यथांतरिक्षं रूपवंत सूर्यरश्मय अच्छादयंति तद्वदाच्छादयति । जरिमा जरा मिनाति । मां सूक्तद्रष्टारं हिनस्ति । अभिशस्तेर्हिंसाहेतोस्तस्या जराया पुराधीहि । मां बुध्यस्व । सा यथा न प्राप्नोति तथा कुरु । अमृतत्वं प्रयच्छेति यावत् ॥ सख्या । सख्युर्भावः सख्यम् । सख्युर्य इति यः । पित्र्याणि । पितृभ्य आगतानि । पितुर्यच्च (पा ४-३-७९) इति यत्प्रत्ययः । रीङृतः (पा ७-४-२७) इति रीङादेशः । यस्येति चेतीकारलोपः । यतोऽनाव इत्याद्युदात्तत्वम् । मर्षिष्ठाः । मृषतितिक्षायाम् । प्रार्थनायां छांदसो लुङ् । न माङ्योग इत्यडभावः । विदुः । विद ज्ञाने । बहुलमन्यत्रापीत्युसिप्रत्ययः । अत एव बहुलवचनाद्गुणा भावः । छंदसि वाप्राम्रेडितयोः (पा ८-३-४९) इति विसर्जनीयस्य षत्वम् । नभः नहेर्दिवि भश्च (उ ४-२१०) इत्यसुन् । जरिमा । जृष् वयोहासौ । औणादिको भाव इमनिच् प्रत्ययः । मिनाति । मीञ् हिंसायाम् । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । अभिशस्तेः । अभिशस्यते हिंस्यतेऽनयेत्यभिशस्तिः । करणे क्तिन् । तदौ चेति गतेः प्रकृतिस्वरत्वम् । अधीहि । इक् स्मरणे । लोट्यदादित्वाच्छपो लुक् । हेरपित्त्वेन ङित्त्वाद्गुणाभावः ॥ १० ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६