यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ ऋ॒तं बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वं दम॑म् ॥
यज॑ । नः॒ । मि॒त्रावरु॑णा । यज॑ । दे॒वान् । ऋ॒तम् । बृ॒हत् ।
अग्ने॑ । यक्षि॑ । स्वम् । दम॑म् ॥
हे अग्ने नोऽस्मदर्थं मित्रावरुणा एतत्संज्ञौ देवौ यज । हविषा पूजय । तथा देवानिंन्रादीन्यज । पूजय । ऋतं सत्यं यथार्थफलं यज्ञं च य चेत्येव । तदर्थ बृहत् प्रौढं स्वं स्वकीयं दमं यज्ञगृहं यक्षि । यज । संगच्छस्व । त्वय्यंतर्विद्यमाने सति हि यज्ञ गृहं पूज्यते ॥ यज । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । देवान् । दीर्घादटसमानपाद इति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमित्यनुनासिक अकारः । यत्वलोपौ । यक्षि यजेर्बहुलं छंदसीति शपो लुक् ॥ ५ ॥