को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥
कः । अ॒द्य । यु॒ङ्क्ते॒ । धु॒रि । गाः । ऋ॒तस्य॑ । शिमी॑ऽवतः । भा॒मिनः॑ । दुः॒ऽहृ॒णा॒यून् ।
आ॒सन्ऽइ॑षून् । ह॒त्सु॒ऽअसः॑ । म॒यः॒ऽभून् । यः । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । सः । जी॒वा॒त् ॥
सर्वपृष्ठायामिष्टौ कायस्य हविषः को अद्येति द्वे ऋचौ याज्यानुवाक्ये । सूत्रितं च । कायं दशमं को अद्य युंक्ते धुरि गा ऋतस्येति द्वे इति ॥
अद्यास्मिन्कर्मणि ऋतस्य गच्छत इंद्रसंबंधिनो रथस्य धुर्यश्ववहनप्रदेशे गा गातिमतोऽश्वान् को युंक्ते । को नाम नियोक्तुं शक्नोति । न कोऽपीत्यर्थः । कीदृशानश्वान् । शिमीवतो वीर्यकर्मोपेतान् भामिनस्तेजसा युक्तान् दुर्हृणायून् परैर्दुःसहेन क्रोधेन युक्तान् । हृणीयतिः क्रुध्यतिकर्मा । आसन्निषून् येषामासन्यास्ये मुखप्रदेशे शत्रूणां प्रहरणार्थमिषवो बाणा बद्धास्तान् हृत्स्वसः । हृत्सुशत्रूणां हृदयेष्वस्यंति स्वकीयं पादं क्षिपंतीति हृत्स्वसः मयोभून् मयसः सुखस्य भावयितृन् । स्वकीयानां सुखप्रदानित्यर्थः । यो यजमान एषामीदृशानामश्वानां भृत्यां भरणक्रियां रथवाहनक्रियामृणधत् समर्धयति । स्तौतीति यावत् । स यजमानो जीवात् । जीवनवान्भवेत् ॥ यद्वा । क इति प्रजापतिरुच्यते । को ह वै नाम प्रजापतिरिति श्रुतेः । ऋतस्य । यज्ञस्य धुरि निर्वाहे गा वेदरूपान्वाग्विशेषानद्येदानीं युंक्ते । संयोजयति । कीदृशान् । शिमीवतः प्रतिपाद्यैः कर्मभिर्युक्तान् भामिन उज्ज्वलान् दुर्हृणायून् । हृणीयतिर्हानि कर्मा । हातुमशक्यान् वेदाध्ययनस्य नित्यत्वात् । आसन्निषून् आसन्यास्य इषुरेषणं गमनमुच्चारणं येषां तान् हृत्स्वसो हृत्सु हृदयेषु दीप्यमानान् । प्रकाशमानानित्यर्थः । मयोभून् मयसोऽध्ययनप्रभवस्य सुखसाधनस्यादृष्टस्य भावयितृन् । यो यजमान एषां वचसां भृत्यां भरणक्रियामृण धत् ऋद्धिमतीं करोति स जीवात् । स एव जीवति । अन्ये जीवन्मृता इत्यर्थः ॥ द्रुर्हृणायून् । हृणीङ् लज्चायाम् । कंड्वादित्वाद्यक् । बहुलवचनादस्मादुण् प्रत्ययः । अतो लोपे सति वर्णव्यापत्त्याकारः । मृगय्वादिर्वा द्रष्टव्यः । आसन्निषून् । पद्दन्नित्यादिनास्यसब्दस्यासन्नादेशः । इष गतावित्यस्मादिषेः किच्च (उ १-१४) इत्युप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हृत्स्वसः । असु क्षेपणे । अस गतिदीप्त्यादानेषु । क्विष्चेति क्विप् । तत्पुरुषे कृति बहुलमित्यलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । मयोभून् । व्यत्ययेन ह्रस्वत्वम् । यद्वा । मितद्र्वादिभ्य उपसंख्यानम् । पा ३-२-१८०-१ । इति डुप्रत्ययः । भृत्याम् । भृञ् भरणे । संज्ञायां समजनिषद (पा ३-३-९९) इति क्यप् । उदात्त इत्यनुवृत्तेः प्रत्ययस्योदात्तत्वम् । ऋणधत् । ऋधु वृद्धौ । लेट व्यत्ययेन श्नम् । लेडोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । जीवात् । जीव प्राणधारणे । पूर्ववल्लेट्याडागमः ॥ १६ ॥