क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ ।
कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥
कः । ई॒ष॒ते॒ । तु॒ज्यते॑ । कः । बि॒भा॒य॒ । कः । मं॒स॒ते॒ । सन्त॑म् । इन्द्र॑म् । कः । अन्ति॑ ।
कः । तो॒काय॑ । कः । इभा॑य । उ॒त । रा॒ये । अधि॑ । ब्र॒व॒त् । त॒न्वे॑ । कः । जना॑य ॥
अनुग्रहीतरींद्र आगते सति क ईषते । शत्रोर्भीतः सन् को निर्गच्छति । न कोऽपीत्यर्थः । कस्तुज्यते । को हिंस्यते । शत्रुभिर्हिंस्योऽपि कश्चिन्नास्तीत्यर्थः । को यजमानो बिभाय । बिभेति । इंद्रे रक्षके सति भयमपि नोत्पद्यते दूरे तस्य शत्रुकृता हिंसा । अत्यंतिके समीपे संतमस्माकं रक्षकत्वेन वर्तमानमिंद्रं कः पुरुषो मंसते । जानाति । वयमेव जानीमो नान्य इत्यर्थः । एकः कः पूरकः । युदे । सहायार्थमिंद्र आगते सति को यजमानस्तोकाय पुत्रायाधिब्रवत् । हे इंद्रास्मदीयं पुत्रं रक्षेत्येवंरूपमधिवचनं पक्षपातेन वचनं ब्राह्मणायाधिब्रूयादिति यथा एवंरूपमधिवचनं को यजमानः कुर्यात् । स्वयमेवेंद्रो रक्षतीति भावः । इभाय गजाय कोऽधि ब्रवत् । उतापि च राये शत्रुभिरपह्रियमाणाय धनाय कोऽधि ब्रवत् । अपह्रियमाणमस्मदीयं धनं रक्षेत्यधिवचनमपि को यजमानः कुर्यात् । न कोऽपीत्यर्थः । अपि च तन्वे स्वकीयाय शरीराय जनाय परिजनाय च कोऽधि ब्रवत् । स्वशरीररक्षार्थं परिजनरक्षार्थं चेंद्रस्याधिवचनं नापेक्षितम् । स्तुत्या प्रीत इंद्रः स्वयमेव रक्षतीत्यर्थः ॥ यदा तु कशब्दाभिधेयस्य प्रजापतेः संबंधिनि कर्मणि विनियोगः तदानीं परमैश्वर्ययोगादिंद्रशब्देन प्रजापतिरे वाभिधीयते । यथैंद्र्या गार्हपत्यमुपतिष्ठत इति विनियोगानुसारेण कदा चनेत्यस्यामृचि विद्यमान इंद्रो गार्हपत्यपरतया नीयते । तद्वत् ॥ ईषते । ईष गतिहिंसादर्शनेषु । भौवादिक आत्मनेपदी । तुज्यते । तुज हिंसायाम् । कर्मणि यक् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । अतिङ इति पर्युदासान्निघाताभावः । मंसते । लेट्यडागमः । सिब्बहुलं लेटेति सिप् । अंति । अंतिकस्य कादिलोपो बहुलमिति कलोपः । ब्रवत् । ब्रवीतेर्लेट्यडागमः । तन्वे । तनुशब्दाच्चतुर्थ्येकवचने जसादिषु च्छंदसि वा वचनमिति घेर्ङितीति गुणाभावे यणादेशः । उदात्तस्वरितयोर्यण इति विभक्तेः स्वरितत्वं ॥ १७ ॥