मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८७, ऋक् १

संहिता

प्रत्व॑क्षस॒ः प्रत॑वसो विर॒प्शिनोऽना॑नता॒ अवि॑थुरा ऋजी॒षिणः॑ ।
जुष्ट॑तमासो॒ नृत॑मासो अ॒ञ्जिभि॒र्व्या॑नज्रे॒ के चि॑दु॒स्रा इ॑व॒ स्तृभि॑ः ॥

पदपाठः

प्रऽत्व॑क्षसः । प्रऽत॑वसः । वि॒ऽर॒प्शिनः॑ । अना॑नताः । अवि॑थुराः । ऋ॒जी॒षिणः॑ ।
जुष्ट॑ऽतमासः । नृऽत॑मासः । अ॒ञ्जिऽभिः॑ । वि । आ॒न॒ज्रे॒ । के । चि॒त् । उ॒स्राःऽइ॑व । स्तृभिः॑ ॥

सायणभाष्यम्

प्रत्वक्षस इति षडृचं तृतीयं सूक्तं गोतमस्यार्षं जागतं मारुतम् । तथा चानुक्रांतम् । प्रत्वक्षसः षड्जागतमिति ॥ अग्निष्टोम आग्निमारुतशस्त्र इदं सूक्तं मारुतनिविद्धानम् । अथ यथेतमिति खंडे सूत्रितम् । प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये । आ ५ । २० । इति ॥

प्रत्वक्षसः शत्रूणां प्रकर्षेण तनूकर्तारः । शत्रुघातिन इत्यर्थः । यतः प्रतवतः प्रकष्टबलोपेता अत एव विरप्शिनो विविधेन जयघोषेणोपेताः । यद्वा । महन्नामैनत् । महांतो हि विविधैः शब्दैः प्रशस्यंते । अत एवानानता आनतिरहिताः । सर्वोत्कृष्टा इत्यर्थः । अविथुरा अवियुक्ताः । सप्तगणरूपेण संघीभूता इत्यर्थः । ऋजीषिणः । तृतीयसवने ऋजीषस्याभिषवात् तत्र च मरुतः स्तूयंत इति तेषामृजीषित्वम् । यद्वा । ऋजीषिणः प्रार्जयितारो रसानाम् । जुष्टतमासोऽतिशयेन यष्टृभिः सेविताः नृतमासोऽतिशयेन मेघादेर्नेतारः एवंभूता मरुतः स्तृभिः स्वशरीरस्याच्छादकैरंजिभी रूपाभिव्यंजकैराभरणैर्व्यानज्रे । नभसि व्यक्ता दृश्यंते । तत्र दृष्टांतः । के चिदुस्रा इव । ये केचन सूर्यरश्मये यथा नभसि दीप्यंते तद्वत् ॥ प्रत्वक्षसः । प्रकर्षेण त्वक्षंते तनूकुर्वंतीति प्रत्वक्षसः । तक्षू त्वक्षू तनूकरणे । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च । प्रतवसः । तव इति बलनाम । प्रकृष्टं तवो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । विरप्शिनः । रप लप जल्प व्यक्तायां वाचि । विरपणं विरप्यः । औणादिकः शक्प्रत्ययः । तद्वंतो विरप्शिनः । अनानताः । आनता अवनताः प्रह्वीभूताः । न आनता अनानताः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अविथुराः । व्यथ भयचलनयोः । व्यथेः संप्रसारणं धः किच्च (उ १-४०) इत्युरच् प्रत्ययः । अत्र तु बहुलवचनाद्धत्वं न क्रियते । पूर्ववत्समासस्वरौ । जुष्टतमासः । नित्यं मंत्र इति जुष्टशब्द आद्युदात्तः । तत आतिशायनिकस्य तमपः पित्त्वादनुदात्तत्वे स एव स्वरः शिष्यते । आनज्रे । आन्जू व्यक्तिम्रक्षणकांतिगतिषु । कर्मणि च्छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । अत आदेरित्यभ्यासस्यात्वम् । तस्मान्नुड् द्विहलः (पा ७-४-७१) इति नुट् । व्यत्ययेनोपधालोपः । इरयो रे । स्तृभिः । स्तृञ् आच्छादने । क्विप् । आगमानुशासनस्यानित्यत्वात्तुगभावः ॥ १ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३