अहा॑नि॒ गृध्रा॒ः पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीम् ।
ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥
अहा॑नि । गृध्राः॑ । परि॑ । आ । वः॒ । आ । अ॒गुः॒ । इ॒माम् । धिय॑म् । वा॒र्का॒र्याम् । च॒ । दे॒वीम् ।
ब्रह्म॑ । कृ॒ण्वन्तः॑ । गोत॑मासः । अ॒र्कैः । ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । उ॒त्स॒ऽधिम् । पिब॑ध्यै ॥
तृषितैर्गोतमैः स्तुता मरुतस्तेभ्यो गोतमेभ्यो देशांतरे वर्तमानं कूपमुत्खायानीय प्रददुः । एतद्दृष्ट्वा कश्चिदृषिब्रूर्ते । हे गोतमा गृध्रा जिलाभिकांक्षायुक्तान्वो युष्मानहानि शोभनोदकोपेतानि दिनानि पर्यागुः । पर्यागतानि । परित अभिमुख्येन प्राप्तनि । प्राप्य च वार्कार्यां वार्भिरुदकैर्निष्पाद्यां धियं ज्योतिष्टोमादिलक्षणं कर्म च देवीं द्योतमानमकुर्वन् । येष्वहस्तु ब्रह्म हविर्लक्षणमन्नमर्कैर्मंत्रसाध्यैः स्तोत्रैः सह कृण्वंतो मरुद्भ्यः कुर्वंतो गोतमासो गोतमा ऋषय उत्सधिम् । उत्सो जलप्रवाहोऽस्मिन्धीयत इत्युत्सधिः कूपम् । तं पिबध्यै स्वकीयपानायोर्ध्वं नुनुद्रे नुनुदिरे देशांतरे वर्तमानं कूपमुत्खातवंतः । एतदीयस्तोत्रैः स्तुता मरुतः कूपमुत्खातवंत इति यत्तदेतदीयस्तोत्रकारितमित्येतेषूपचर्यते ॥ गृध्राः । गृधु अभिकांक्षायाम् । सुसूधागृधिभ्यः क्रन्निति क्रन्प्रत्ययः । सुपां सुपो भवंतीति शसो जस् । नित्त्वादाद्युदात्तत्वम् । अगुः । एतेर्लुङीणो गा लुङीति गादेशः । आत इति झेर्जुस् । वार्कार्याम् । डुकृङ् करणे । ऋहलोर्ण्यत् । वार्भिः कार्यावार्कार्या । त्रिचक्रादित्वादुत्तरपदांतोदात्तत्वम् । ननुद्रे । णुद प्रेरणे । इरयो र इति रेआदेशः । उत्सधिम् । कर्मण्यधिकरणे चेति दधातेरधिकरणे किप्रत्ययः । पिबध्यै । पा पाने । तुमर्थे सेसेनिति शध्यैन्प्रत्ययः । पाघ्रेत्यादिना पिबादेशः ॥ ४ ॥