श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तो॑ः ॥
श॒तम् । इत् । नु । श॒रदः॑ । अन्ति॑ । दे॒वाः॒ । यत्र॑ । नः॒ । च॒क्र । ज॒रस॑म् । त॒नूना॑म् ।
पु॒त्रासः॑ । यत्र॑ । पि॒तरः॑ । भव॑न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः॑ । गन्तोः॑ ॥
हे देवा अत्यंतिके मनुष्याणां समीप आयुष्व्वेन भवद्भिः कल्पिताः शरदः संवत्सराः शतमिन्नु शतं खलु । यस्मात्सृष्विकाले मनुष्याणां शतं संवत्सरा आयुरिति युष्माभिः परिकल्पितं तस्मान्नोऽस्माकमायुर्गंतोः क्लृ्प्तस्यायुषो गमनात्पूर्वं मध्या मध्ये मा रीरिषत । मा हिंसिष्ट । कीदृशान् । नोऽस्माकं तनूनूं शरीराणां जरसं जरां यत्र यस्यामवस्थायां चक्र कृतवंतो यूयम् । यत्र च पुत्रासः पुत्राः पितरोऽस्माकं रक्षितारो भवंति । ईदृग्दशापन्नानित्यर्थः ॥ अंति । अंतिकशब्दस्य कादिलोपो बहुलमिति वक्तव्यमिति कलोपः । यत्र । ऋचि तनुघमक्षुतङ् कुत्रेति संहितायां दीर्घः । चक्र । लिट मध्यमबहुवचनस्य कित्त्वाद्गुणाभावे यणादेशः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । जरसम् । जराया जरसन्यतरस्याम् (पा ७-२-१०१) इति जरसादेशः । मध्या । सुपां सुलुगिति सप्तम्या डादेशः । रीरिषत । रिष रुष हिंसायाम् । अस्माण्ण्यंतात् माङु लुङि मध्यमबहुवचने च्लेश्चङु णिलोपोपधाह्रस्वद्विर्वचनहलादिशेषसन्वद्भावेत्वदीर्घाः । छांदसः पदकालीनो ह्रस्वः । गंतोः । भावलक्षणे स्थेण् (पा ३-४-१६) इति गमेस्तोसुन्प्रत्ययः ॥ ९ ॥