या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
तेभि॑र्नो॒ विश्वै॑ः सु॒मना॒ अहे॑ळ॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥
या । ते॒ । धामा॑नि । दि॒वि । या । पृ॒थि॒व्याम् । या । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु ।
तेभिः॑ । नः॒ । विश्वैः॑ । सु॒ऽमनाः॑ । अहे॑ळन् । राज॑न् । सो॒म॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥
आग्रयणेष्टौ सौम्यस्य हविषो याते धामानीति याज्या । आग्रयणं व्रीहिश्यामाकयवानामिति खंडे सूत्रितम् । सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्याम् (आ २-९) इति ॥ एषैवैकादशिनस्य सौम्यस्य पशोर्वपायां याज्या । सूत्रितं च । या ते धामानि दिवि या पृथिव्यामषाळ्हं युत्सु पृतनासु पप्रिम् (आ ३-७) इति ॥ प्रायणीयेष्टावप्येषैव स्यौम्यस्य याज्या । सूत्रितं च । त्वं सोम प्र चकितो मनीषा या ते धामानि दिवि या पृथिव्याम् (आ ४-३) इति ॥
हे सोम ते तव दिवि द्युलोके या यानि धामानि तेजांसि वर्तंते । तथा पृथिव्यां भूमौ यानि वर्तंते । तथा पर्वतेषु पर्ववत्सु शिलोच्चयेषु यानि वर्तंते । तथा व्रीह्याद्योषधीष्वप्सु च यानि वर्तंते । तेभिर्विश्व्वॆस्तैः सर्वैस्तेजोभिर्युक्तः सुमनाः शोभनमना अहेळन्नक्रुध्यन् हे राजन् । सोम राजमान सोम एवंभूतस्त्वं हव्यास्माभिः प्रत्तानि हवींषि प्रति गृभाय प्रतिगृहाण ॥ या । शेश्छंदसि बहुलमिति शेर्लोपः । पृथिव्याम् । उदात्तयण इति विभक्तेरुदात्तत्वम् । ओषधीषु । ओषधेश्च विभक्तावप्रथमायाम् (पा ६-३-१३२) इति दीर्घः । अप्सु । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । सुमनाः । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । गृभाया । ग्रह उपादाने । छंदसि शायजपीति हौ श्नाप्रत्ययस्य शायजादेशः ॥ ४ ॥