व्यू॒र्ण्व॒ती दि॒वो अन्ताँ॑ अबो॒ध्यप॒ स्वसा॑रं सनु॒तर्यु॑योति ।
प्र॒मि॒न॒ती म॑नु॒ष्या॑ यु॒गानि॒ योषा॑ जा॒रस्य॒ चक्ष॑सा॒ वि भा॑ति ॥
वि॒ऽऊ॒र्ण्व॒ती । दि॒वः । अन्ता॑न् । अ॒बो॒धि॒ । अप॑ । स्वसा॑रम् । स॒नु॒तः । यु॒यो॒ति॒ ।
प्र॒ऽमि॒न॒ती । म॒नु॒ष्या॑ । यु॒गानि॑ । योषा॑ । जा॒रस्य॑ । चक्ष॑सा । वि । भा॒ति॒ ॥
दिवो नभसोऽंतान् प्रांतान्व्यूर्ण्वती विवृतांस्तमसा वियुक्तान् कुर्वत्युषा अबोधि । सर्वैः प्राणिभिरज्ञायि । ज्ञाताऽभूत् । तदनंतरं स्वसारमुषसः प्रादुर्भावे सति स्वयमेव सरंतीं निशां सनुतः । अंतर्हितनामैतत् । अंतर्हितप्रदेशेऽप युयोति । अपगमय्य पृथक्करोति । मनुष्या मनुष्याणां संबंधीनि युगानि कृतत्रेतादीनि प्रमिनती स्वगमनागमनाभ्यां प्रकर्षेण हिंसंती जारस्य रात्रेर्जरयितुः सूर्यस्य योषा जायोषाश्चक्षसात्मीयेन प्रकाशेन विभाति । विशेषेण प्रकाशते ॥ व्यूर्ण्वती । ऊर्णुञ् आच्छादने । विपूर्वादस्माल्लटः शतृ । उगितश्चेति ङीप् । शतुरनुम इति नद्या उदात्तत्वम् । सनुतः । एतदंतोदात्तं स्वरादिषु निपातितम् । अतोऽव्ययसंज्ञायामव्ययादाप्सुप इति सप्तम्या लुक् । युयोति । यु मिश्रणामिश्रणयोः । बहुलं छंदसीति शपः श्लुः । मनुष्या । सुपां सुलुगिति षष्ठ्या डादेशः । युगानि । युजेः करणे कर्मणि वा घञ् । चजोः कु घिण्यतोरिति कुत्वम् । उंछादिषु कालविशेषे रथाद्युपकरणे च युगशब्दपाठात् लघूपधगुणाभावः । का ६-१-१६० । उंछादीना चेत्यंतोदात्तत्वम् । जारस्य । दारजारौ कर्तरि णिलुक्च । पा ३-३-२०-४ । घञंतो निपात्यते ॥ ११ ॥