अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् ।
प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ॥
अग्नी॑षोमौ । इ॒मम् । सु । मे॒ । शृ॒णु॒तम् । वृ॒ष॒णा॒ । हव॑म् ।
प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒त॒म् । भव॑तम् । दा॒शुषे॑ । मयः॑ ॥
अग्नीषोमाविति द्वादशर्चं नवमं सूक्तं गोतमस्यार्षम् । आदितस्तिस्रोऽनुष्टुभः । नवम्याद्यास्तिस्रो गायत्र्यः । अष्टमी जगती त्रिष्टुब्वा । शिष्वाःपंचत्रिष्टुभः । अग्नीषोमौ देवता । तथा चानुक्रांतम् । अग्नीषोमौ द्वादशाग्नीषोमीयमाद्यास्तिस्रोऽनुष्टुभ उपांत्यास्तिस्रो गायत्र्योऽष्टमी जगती वेति ॥ अग्नीषोमीयस्य पशोर्वपापुरोडाशहविषामादितस्तिस्र ऋचः क्रमेणानुवाक्याः । सूत्रितं च । अग्निषोमाविमं सुमे युवमेतानि दिवि रोचनानीति तृचौ (आ ३-८) इति ॥
वृषणा वृषणौ कामानां वर्षितारौ हे अग्नीषोमौ इममिदानीं प्रयुज्यमानं मे मदीयं हवमाह्वानं सु शृणुतम् । सम्यगवगच्छतम् । सूक्तानि शोभनानि स्तुतिलक्षणान्यस्माभिः कृतानि वचांसि प्रति हर्यतम् । प्रत्येकं कामयेथाम् । तदनंतरं दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय मयो मयसः सुखस्य दातारौ भवतं ॥ अग्निषोमौ । अग्निश्च सोमश्च । द्वंद्वः ईदग्नेऽसोमवरुणयोः (पा ६-३-२७) इतीत्वम् । अग्नेः स्तुत्सोमसोमाः (पा ८-३-८२) इति षत्वम् । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरे प्राप्त आमंत्रितस्य चेत्याद्युदात्तत्वम् । वृषणा । सुपां सुलुगित्याकारः । वा षपूर्वस्येति विकल्पनादुपधाया दीर्घाभावः । हवम् । भावेऽनुपसर्गस्येति ह्वयतेरप् संप्रसारणं च । सूक्तानि । सुपूर्वाद्वक्तेः कर्मणि निष्ठा । सूपमानात् क्त इत्युत्तरपदांतोदात्तत्वम् । हर्यंतम् । हर्य गतिकांत्योः । भौवादिकः ॥ १ ॥