जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥
जा॒तऽवे॑दसे । सु॒न॒वा॒म॒ । सोम॑म् । अ॒रा॒ति॒ऽय॒तः । नि । द॒हा॒ति॒ । वेदः॑ ।
सः । नः॒ । प॒र्ष॒त् । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ । ना॒वाऽइ॑व । सिन्धु॑म् । दुः॒ऽइ॒ता । अति॑ । अ॒ग्निः ॥
जातवेदस इत्येकर्चं षष्ठं सूक्तं मरीचिपुत्रस्य कश्यपस्यार्षं त्रैष्टुभम् । जातवेदोगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रांतम् । जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्त सहस्रमेतत्तु कश्यपार्षमिति ॥ अहर्गणेषु द्वितीयादिष्वहःस्वाग्निमारुते जातवेदस्यनिविद्धानात्पूर्वमेषा शंसनीया । सूत्रितं च । जातवेदसे सुनवाम सोममित्याग्नि मारुते जातवेदस्यानाम् (आ ७-१) इति ॥
जातवेदसे जातानामुत्पत्तिमतां सर्वेषां वेदित्रे यद्वा जातैः सर्वैः प्राणिभिर्ज्ञायमानाय जातधनाय जातप्रज्ञाय वाग्नये लतारूपं सोमं सुनवाम । अभिषुणुयाम । जातवेदोगुणकमग्निं यष्टुं सोमाभिषवं करवामेत्यर्थः । सोऽग्निररातीयतोऽरातिं शत्रुमिवास्मानाचरतः शत्रोर्वेदो धनं निदहाति । नितरां दहतु । भस्मीकरोतु । अपि च सोऽग्निर्नोऽस्मान्विश्वा विश्वानि सर्वाणि दुर्गाणि दुर्गमनानि भोक्तुमशक्यानि दुःखान्यति पर्षत् । अतिपारयतु । अतिक्रमय्य दुःखरहितं सुखं प्रापयतु । तत्र दृष्टांतः । नावेव सिंधुम् । यथा कश्चित्कर्णधारो ग्राहादिभिर्दुष्टसत्वैराकुलितां नदीं नावा तारयति । तद्वत् । तथा दुरिता दुरितानि दुःखहेतुभूतानि पापान्यस्मानग्निरति पारयतु । दुःखनिमित्तात्पापादप्यस्मानुत्तारयत्वित्यर्थः । अत्र निरुक्तम् । जातवेदाः कस्मात् जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो वा जातविद्यो वा जातप्रज्ञानो वा यत्तज्जातः पशूनविंदतेति तज्जातवेदसो जातवेदस्त्वमिति हि ब्राह्मणणित्यादि । नि ७-१९ ॥ जातवेदसे । जातानि वेत्तीति जातवेदाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनात्कारकपूर्वाद्वेत्तेरसुन् पूर्वपदप्रकृतिस्वरत्वं च अरातीयतः । न विद्यते रातिर्दानमस्मिन्नित्यरातिः शत्रुः । तमिवास्मानाचरति । उपमानादाचारे (पा ३-१-१०) इत्युपमानभूतात्कर्मणः क्यच् । क्यजंताल्लटः शतृ । शतुरनुम इति ङस उदात्तत्वम् । दहाति । दह भस्मीकरणे । लेट्याडागमः । विद्यते लभ्यत इति वेदो धनम् । विद्लृ लाभे । औणादिकः कर्मण्यसुन् पर्षत् । पृ पालनपूरणयोः । अस्मादंतर्भावितण्यर्थाल्लेट्यडागमः । सिब्बहुलं लेटीति सिप् । दुर्गाणि । दुःखेन गम्यत एष्विति सुदुरोरधिकशण इति गमेर्डः ॥ १ ॥