त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी॑र्नृपते॒ त्रीणि॑ रोच॒ना ।
अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरि॑न्द्र ज॒नुषा॑ स॒नाद॑सि ॥
त्रि॒वि॒ष्टि॒ऽधातु॑ । प्र॒ति॒ऽमान॑म् । ओज॑सः । ति॒स्रः । भूमीः॑ । नृ॒ऽप॒ते॒ । त्रीणि॑ । रो॒च॒ना ।
अति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । व॒व॒क्षि॒थ॒ । अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ ॥
हे नृपते नृणां पालयितरिंद्र त्वमोजसः सर्वेषां प्राणिनां बलस्य प्रतिमानं प्रतिनिधिरसि । कीदृशं प्रतिमानम् । त्रिविष्टिधातु । धातुशब्दो रज्जुभागवचनः । यथा त्रिधातु पंचधातु वा शुल्वं करोतीति । यथा त्रिविष्टस्त्रिगुणिता रज्जुर्द्रढीयसी एवमिंद्रोऽपि दृढतर इत्यर्थः । किंच त्वं तिस्रो भूमीस्त्रीन् लोकान् त्रीणिरोचना त्रीणि तेजांसि दिव्यादित्याख्यमंतरिक्षे वैद्युतरूपमग्निं पृथिव्यामाहवनीयादिरूपेण वर्तमानं पार्थिवमग्निं एवं त्रीन् लोकान् त्रीणि तेजांसि चाति ववक्षिथ । अतिशयेन वोढुमिच्छसि । अपि चेदं विश्वं सर्वं भुवनं भूतजातं चातिवोढुमिच्छसि । सर्वस्य जगतः पालनेन त्वमेव सर्वेषां निर्वाहको भवसीत्यर्थः । यस्माद्धे इंद्र त्वं सनाच्चिरकालादारभ्य जनुषा जन्मना जन्मप्रभृत्यशत्रुः सपत्नरहितोऽसि ॥ त्रिविष्टिधातु । त्रिधा त्रिप्रकारेण विष्ट्या प्रवेशनेन विधीयते क्रियत इति त्रिविष्टिधातुस्त्रिगुणिता रज्जुः । विशेर्भावे क्तिन् । धाञः सितनिगमिमसीत्यादिना (उ १-७०) कर्मणि नुत्प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अत्र दृढरज्जुवाचकः शब्दस्तद्गतं दार्ढ्यं लक्षयित्वा तद्वति प्रतिमाने वर्तते । यथा माणवकेऽग्नि शब्दः । तिस्रः । शसि त्रिचतुरोः स्त्रियामिति तिस्रादेशोऽंतोदात्तः । अचि र ऋत इति रेफादेश उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । ववक्षिथ । वह प्रापण इत्यस्मादिच्छासनि ढत्वकत्वषत्वानि । सन्यत इतीत्वाभावश्छांदसः छांदसे लिट्यमंत्र इति निषेधादाम्प्रत्ययाभावः । जनुषा । जनेरुसिः ॥ ८ ॥