यम॑श्विना द॒दथु॑ः श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति ।
तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥
यम् । अ॒श्वि॒ना॒ । द॒दथुः॑ । श्वे॒तम् । अश्व॑म् । अ॒घऽअ॑श्वाय । शश्व॑त् । इत् । स्व॒स्ति ।
तत् । वा॒म् । दा॒त्रम् । महि॑ । की॒र्तेन्य॑म् । भू॒त् । पै॒द्वः । वा॒जी । सद॑म् । इत् । हव्यः॑ । अ॒र्यः ॥
अत्रेदमाख्यायते । पेदुर्नाम कश्चित् स चाश्विनौ तुष्टाव । तस्मै प्रीतौ कंचिच्छ्वेतवर्णमश्वं दत्तवंतौ । स चाश्वस्तस्य प्रौढं जयं चकारेति । एतदत्र प्रतिपाद्यते । हे अश्विनौ युवामघाश्वायाहंतव्याश्वाय पेदुनाम्ने राजर्षये यं श्वेतवर्णमश्वं ददथुः दत्तवंतौ सोऽश्वस्तस्मै स्वस्ति जयलक्षणं मंगलं शश्वदित् नित्यमेव चकार । वां युवयोस्तद्दात्रं दानं महि महदतिगंभीरम् । अत एव कीर्तेन्यं सर्वैः कीर्तनीयं प्रशस्यं भूत् । अभूत् । तस्मात्पैद्वः पेदो संबंधी पतनशीलः शीघ्रगामी वार्यः शत्रूणां प्रेरयिता युद्धेषु प्रेरयितव्यो वा वाजी वेजनवान्सोऽश्वः सदमित् सदैव हव्योऽस्माभिरप्याह्वातव्यः ॥ दात्रम् । ददातेर्भाव औणादिकस्त्रप्रत्ययः । महि । मह पूजायाम् । इन् सर्वधातुभ्य इतीन् । कीर्तेन्यम् । कॄत संशब्दने । कृत्यार्थे तवैकेन्केन्यत्वन इति केन्यप्रत्ययः । ॠत इद्धातोरितीत्वम् । भूत् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । पैद्वः । पेदोः संबंधी । तस्येदमित्यण् । छांदसो वर्णलोपः । हव्यः । ह्वयतेरचो यदिति यत् । बहुलं छंदसीति संप्रसारणम् । गुणो धातोस्तन्निनिमित्तस्यैवेत्यवादेशः । आर्यः । ऋ गतौ अघ्न्यादयश्च (उ ४-१११) इत्यौणादिको यत् । व्यत्ययेनांतोदात्तत्वं ॥ ६ ॥