जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात् ।
प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥
जु॒जु॒रुषः॑ । ना॒स॒त्या॒ । उ॒त । व॒व्रिम् । प्र । अ॒मु॒ञ्च॒त॒म् । द्रा॒पिम्ऽइ॑व । च्यवा॑नात् ।
प्र । अ॒ति॒र॒त॒म् । ज॒हि॒तस्य॑ । आयुः॑ । द॒स्रा॒ । आत् । इत् । पति॑म् । अ॒कृ॒णु॒त॒म् । क॒नीना॑म् ॥
अत्रेदमाख्यानम् । वलीपलितादिभिरुपेतो जीर्णांगः पुत्रादिभिः परित्यक्तश्च्यवनाख्य ऋषिरश्विनौ तुष्टाव । स्तुतावश्विनौ तस्मा ऋषये जरामपगमय्य पुनर्यौवनमकुरुतामिति । तदेतदाह । हे नासत्यावश्विनौ जुजुरुषो जीर्णात् च्यवानात् चवनख्यादृषेः सकाशाद्वव्रिं कृत्स्नं शरीरमाव्यत्यावस्थितां जरां प्रामुंचतम् । प्रकर्षेणामोचयतम् । तत्र दृष्टांतः । द्रापिमिव । द्रापिरिति कवचस्याख्या । यथा कश्चित्कवचं कृत्स्नशरीरव्यापकं धृत्वा पश्चाच्छरीरात्पृथक्करोति तद्वत् । उतापि च हे दस्रा एतत्संज्ञौ दर्शनीयौ वाश्विनौ जहितस्य पुत्रादिभिः परित्यक्तस्य ऋषेरायुर्जीवनं प्रातिरतम् । प्रावर्धयतम् । प्रपूर्वस्तिरतिर्वर्धनार्थः । आदित् अनंतरमेव युवानं संतं कनीनां कन्यानां पतिं भर्तारमकृणुतम् । अकुरतं ॥ जुजुरुषः । जॄष् वयोहानौ । लिटः क्वसुः । बहुलं छंदसीत्युत्वम् । द्विर्भावः । पंच्यमेकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । वव्रिम् । वृञ् वरणे । आदृगमहन इति किप्रत्ययः । जहितस्य । ओहाक् त्यागे । कर्मणि निष्ठा । तस्य छंदस्युभयथेति सार्वधातुकत्वाद्यक् । तस्य बहुलं छंदसीति श्लुः । जहातेश्च (पा ६-४-११६) इतीत्वम् । कनीनाम् । रयेर्मतौ बहुलमिति बहुलवचनात्कन्याशब्दस्यात्र संप्रसारणं ॥ १० ॥