मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् १९

संहिता

म॒ही वा॑मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः ।
अथा॑ यु॒वामिद॑ह्वय॒त्पुरं॑धि॒राग॑च्छतं सीं वृषणा॒ववो॑भिः ॥

पदपाठः

म॒ही । वा॒म् । ऊ॒तिः । अ॒श्वि॒ना॒ । म॒यः॒ऽभूः । उ॒त । स्रा॒मम् । धि॒ष्ण्या॒ । सम् । रि॒णी॒थः॒ ।
अथ॑ । यु॒वाम् । इत् । अ॒ह्व॒य॒त् । पुर॑म्ऽधिः । आ । अ॒ग॒च्छ॒त॒म् । सी॒म् । वृ॒ष॒णौ॒ । अवः॑ऽभिः ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोर्मही महत्यूतिः पालनं मयोभूर्मयसः सुखस्य भावयित्री । उतापि च हे धिष्ण्या । धिषणा स्तुतिलक्षणा वाक् । तया स्तोतव्यौ स्रामं व्याधितं पुरुषं विश्लिष्टांगमत्र्यादिकं सं रिणीथः । संगतावयवं कुरुथः । अथापि च युवामिद्युवामेव पुरंधिर्बहुधीर्घोषा विश्पला वाह्वयत् । रोगोपशमनार्थमाहूतवती ॥ हे वृषणौ कामानां वर्षितारावश्विनौ अवोभी रक्षणैः सहागच्छतम् । आभिमुख्येन सीमेनां प्राप्तवंतौ ॥ मही । महती । छांदसो वर्णलोपः । यद्वा । महेरौणादिक इन् । कृदिकारादक्तिन इति ङीष् । मयोभूः । भवतेरंतर्भावितण्यर्थात् क्विप् । रिणीथः । री गतिरेषणयोः । क्रैयादिकः प्वादीनां ह्रस्व इति ह्रस्वत्वं ॥ १९ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६