मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् २०

संहिता

अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गाम् ।
यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषा॑म् ॥

पदपाठः

अधे॑नुम् । द॒स्रा॒ । स्त॒र्य॑म् । विऽस॑क्ताम् । अपि॑न्वतम् । श॒यवे॑ । अ॒श्वि॒ना॒ । गाम् ।
यु॒वम् । शची॑भिः । वि॒ऽम॒दाय॑ । जा॒याम् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योषा॑म् ॥

सायणभाष्यम्

हे दस्रा दर्शनीयावश्विनौ विषक्तां विशेषेण सक्तावयवाम् । कृशावयवामित्यर्थः । अत एव स्तर्यं निवृत्तप्रसवां अत एवाधेनुमदोग्ध्रीं एवं भूतां गां शयव एतत्संज्ञायर्षयेऽपिन्वतम् । पयसापूरयतम् । अपि च पुरुमित्रस्य । पुरुमित्रो नाम कश्चिद्राजा । तस्य योषां कुमारीं शचीभिरात्मीयैः कर्मभिर्विमदायैतत्संज्ञायर्षये शत्रुभिः सह योद्धुमशक्ताय युवां न्यूहथुः । विमदस्य गृहं प्रापितवंतौ ॥ स्तर्यम् । स्तृञ् आच्छादने । अवितॄस्तृतंत्रिभ्य ईरितीकारप्रत्ययः । वा छंदसीत्यमि पूर्वस्य विकल्पनादभावे यणादेशः । उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । विषक्ताम् । षन्ज संगे । कर्मणि निष्ठा । अनिदितामिति नलोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । अपिन्वतम् । पिवि सेचने । इदित्त्वान्नुम् । भौवादिकः । पुरुमित्रस्य । पुरूणि मित्राणि यस्य । संज्ञायां मित्राजिनयोः (पा ६-२-१६५) इति बहुव्रीहावुत्तरपदांतोदात्तत्वं ॥ २० ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६