यु॒वं वन्द॑नं॒ निरृ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः ।
क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥
यु॒वम् । वन्द॑नम् । निःऽऋ॑तम् । ज॒र॒ण्यया॑ । रथ॑म् । न । द॒स्रा॒ । क॒र॒णा । सम् । इ॒न्व॒थः॒ ।
क्षेत्रा॑त् । आ । विप्र॑म् । ज॒न॒थः॒ । वि॒प॒न्यया॑ । प्र । वा॒म् । अत्र॑ । वि॒ध॒ते । दं॒सना॑ । भु॒व॒त् ॥
हे दस्रावश्विनौ युवं युवां जरण्यया जरया विर्ऋतं निःशेषेण प्राप्तं वंदनमृषिं करणा कर्मणां कर्तारौ शिल्पकुशलौ युवां समिन्वथः । समधत्तम् । पुनर्युवानमकुरुतम् । तत्र दृष्टांतः । रथं न । यथा कश्चिच्छिल्पी जीर्णं रथं पुनरप्यभिनवं करोति तद्वत् । अपि च विपन्यया स्तुत्या गर्भस्थेन वामदेवेन स्तुतौ संतौ क्षेत्रादा । आकारः समुच्चये । मातुरुदरलक्षणाज्जन्मस्थानाद्विप्रं मेधाविनं तमृषिं जनथः । जनयथश्च । तथा वां युवयोर्दंसना रक्षणात्मकं कर्मात्रास्मै विधते परिचरते यजमानाय प्र भुवत् । प्रभवतु । रक्षितुं समर्थं भवतु ॥ निर्ऋतम् । ऋ गतौ । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । जरण्यया । जरणक्रियार्हा जरण्या । अंत्यावस्थाच्छंदसि चेति यः । करणा । करोतेरन्येभ्योऽपि दृश्यते (पा ३-३-१३०) इति युच् । इन्वथः । इवि व्याप्तौ । इदित्वान्नुम् । भौवादिकः । जनथः । जनी प्रादुर्भावे । णिच्युपधावृद्धिः । जनीजॄष् क्नसुरंज इति मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वम् । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । विपन्यया । पन स्तुतौ । अघ्न्यादयश्चेति भावे यत् । व्यत्ययेनांतोदात्तत्वम् । विधते । विध विधाने । तौदादिकः । लटः शतृ । शतुरनुम इति विभक्तेरुदात्तत्वम् । भुवत् । भवतेर्लेट्यडागमः । बहुलं छंदसीति शपो लुक् । भूसुर्वोस्तिङीति गुणप्रतिषेधः ॥ ७ ॥