उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति ।
यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिर॒ः प्रति॑ वा॒मश्व्यं॑ वदत् ॥
उ॒त । स्या । वा॒म् । मधु॑ऽमत् । मक्षि॑का । अ॒र॒प॒त् । मदे॑ । सोम॑स्य । औ॒शि॒जः । हु॒व॒न्य॒ति॒ ।
यु॒वम् । द॒धी॒चः । मनः॑ । आ । वि॒वा॒स॒थः॒ । अथ॑ । शिरः॑ । प्रति॑ । वा॒म् । अश्व्य॑म् । व॒द॒त् ॥
उतापि च हे अश्विनौ मधुमन्मधुमंतौ वां युवां स्या सा मक्षिका सरघा मधुकामा सत्यरपत् । अस्तौत् । तथौशिज उशिजः पुत्रः कक्षीवान् सोमस्य पानेन युवयोर्मदे हर्षे निमित्तभूते सति हुवन्यति । युवामाह्वयति । युवं युवां च तस्यै मक्षिकायै मधु दातुं मधुविद्यार्थिनौ संतौ दधीच आथर्वणस्य ऋषेर्मनश्चित्तं शुश्रूषया आ विवासथः । पर्यचरतम् । अथानंतरं तस्मिन्प्रीते सत्यश्व्यं युवाभ्यां प्रतिहितमश्वस्य संबंधि यच्छिरस्तद्वां युवां प्रति मधुविद्यामवदत् । स ऋषिराश्वेन शिरसोऽपदिष्टवानित्यर्थः ॥ मधुमत् । सुपा सुलुगिति विभक्तेर्लुक् । अरपत् । रप लप व्यक्तायां वाचि । मदे । मदी हर्षे । मदोऽनुपसर्ग इति भावेऽप् । हुवन्यति । ह्वेञ् स्वर्धायां शब्देच । ल्युट्चीति भावे ल्युट् । बहुलं छंदसीति संप्रसारणम् । हवनमात्मन इच्छति । सुप आत्मनः क्यच् । अंत्यलोपश्छांदसः । वर्णव्यापत्तोत्वम् । अश्व्यम् । अश्वे भवमत्व्यम् । भवे छंदसीति यत् ॥ ९ ॥