ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य ।
प्रार्च॒द्दय॑मानो यु॒वाकु॑ः ॥
ता । वि॒द्वांसा॑ । ह॒वा॒म॒हे॒ । वा॒म् । ता । नः॒ । वि॒द्वांसा॑ । मन्म॑ । वो॒चे॒त॒म् । अ॒द्य ।
प्र । आ॒र्च॒त् । दय॑मानः । यु॒वाकुः॑ ॥
हे अश्विनौ विद्वांसा सर्वज्ञौ ता वां तौ युवां हवामहे । आह्वयामहे । तावाहूतौ विद्वांसाभिज्ञौ युवां नोऽस्मभ्यं मन्म मननीयं ज्ञातव्यं स्तोत्रमद्यास्मिन्काले वो चेतम् । ब्रुवाणौ भूयास्तम् । स चाहं युवाकुर्युवां कामयमानः स्तुत्या संयोजयन्वा दयमानो युवाभ्यां हविः प्रयच्छन् प्रार्चत् । प्रार्चम् । प्रकर्षेण स्तौमि ॥ ता । सुपां सुलुगिति विभक्तेराकारः । वोचेतम् । ब्रूञ् व्यक्तायां वाचि । ब्रुवो वचिः । लिङ्शाशिष्यङ् । वच उमित्युमागमः । अर्चत् । अर्च पूजायाम् । भौवादिकः । तिङां तिङो भवंतीति मिपस्तिबादेशः । दयमानः । दय दानगतिरक्षणहिंसादानेषु । शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । युवाकुः । युवां कामयत इति युवाकुः । मितद्र्वादिभ्य उपसंख्यानम् । पा ३-२-१८०-१ । इति डुप्रत्ययः । अविभक्तावपि व्यत्ययेन युवावौ द्विवचन इति युवादेश आत्वं च । यद्वा । यु मिश्रणे । औणादिकः काकुप्रत्ययः ॥ ३ ॥