मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् १०

संहिता

पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य ।
शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ॥

पदपाठः

पु॒रा । यत् । सूरः॑ । तम॑सः । अपि॑ऽइतेः । तम् । अ॒द्रि॒ऽवः॒ । फ॒लि॒ऽगम् । हे॒तिम् । अ॒स्य॒ ।
शुष्ण॑स्य । चि॒त् । परि॑ऽहितम् । यत् । ओजः॑ । दि॒वः । परि॑ । सुऽग्र॑थितम् । तत् । आ । अ॒द॒रित्य॑दः ॥

सायणभाष्यम्

पुरा यद्यदा सूरः सूर्यस्तमसस्तमोरूपस्य शुष्णस्यासुरस्यापीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे अद्रिवः । आदृणात्यनेनेत्यद्रिर्वज्रः । तद्वन्निंद्र तं फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वंतं हेतिं हंतारं शुष्णमसुरमस्य । निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभांक्षीरिति शेषः । तथा शुष्णस्य चित् शोषयितुरसुरस्य च यदोज आच्छादकं बलं दिवस्परि द्योतमानस्य सूर्यस्योपरि परिहितमाच्छादितं सुग्रथितं सुष्ठु सूर्ये सक्तं तदोजस्तस्मात्सूर्यादादः । आदृणाः । विश्लिष्टं कृतवानसीत्यर्थः ॥ अद्रिवः । छंदसीर इति मतुपो वत्वम् । मतुवसोरुरिति नकारस्य रुत्वम् । हेतिम् । कृत्यल्युटो बहुलमिति बहुलवचनाद्धंतेः कर्तरि क्तिन् । ऊतियूतीत्यादौ निपातनाद्रूपसिद्धिरंतोदात्तत्वं च । अस्य । असु क्षेपणे । लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेरिति हेर्लुक् । दिवस्परि । पंचम्या परावध्यर्थ इति विसर्जनीयस्य सत्वम् । अदः । दॄ विदारणे । लङि सिपि बहुलं छंदसीति विकरणस्य लुक् । गुणे हल्ङ्याभ्य इति सिलोपः ॥ १० ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५