ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि ।
उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥
ऋ॒तस्य॑ । र॒श्मिम् । अ॒नु॒ऽयच्छ॑माना । भ॒द्रम्ऽभ॑द्रम् । क्रतु॑म् । अ॒स्मासु॑ । धे॒हि॒ ।
उषः॑ । नः॒ । अ॒द्य । सु॒ऽहवा॑ । वि । उ॒च्छ॒ । अ॒स्मासु॑ । रायः॑ । म॒घव॑त्ऽसु । च॒ । स्यु॒रिति॑ स्युः ॥
हेउषः ऋतस्य सत्यभूतस्यादित्यस्य रश्मिंरश्मीन्अनुयच्छमाना आनुकूल्येनप्रवर्तमानात्वं भद्रं भद्रं क्रतुं तत्तत्कल्याणंस्तुत्यंवा लौकिकंवैदिकंकर्म तद्विषयांप्रज्ञांवा धेहि स्थापय हेउषः अद्येदानीं नोऽस्मदर्थं सुहवासुष्ठुआहुतासती व्युच्छ तमोविवासय प्रकाशंकुर्वित्यर्थः किमर्थमितितदुच्यते—मघ- वत्सु मघमितिधननाम हविर्लक्षणधनयुक्तेष्वस्मासुयजमानेषु रायश्चस्युः बहुविधानिधनानिसंभव- न्त्वितिपूर्वोक्तेनक्रतुनासहसमुच्चयार्थश्चशब्दः ॥ १३ ॥
उषाउच्छन्तीतित्रयोदशर्चंचतुर्थंसूक्तंदैर्घतमसः कक्षीवतआर्पम् त्रैष्टुभमुषस्यं उषाउच्छन्तीत्यनु- क्रान्तं विनियोगस्तु पूर्वसूक्तेएवोक्तः ।