मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३४, ऋक् ६

संहिता

त्वं नो॑ वायवेषा॒मपू॑र्व्य॒ः सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि ।
उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम् ।
विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥

पदपाठः

त्वम् । नः॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । अपू॑र्व्यः । सोमा॑नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒सि॒ ।
उ॒तो इति॑ । वि॒हुत्म॑तीनाम् । वि॒शाम् । व॒व॒र्जुषी॑णाम् ।
विश्वाः॑ । इत् । ते॒ । धे॒नवः॑ । दु॒ह्रे॒ । आ॒ऽशिर॑म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒ऽशिर॑म् ॥

सायणभाष्यम्

हेवायोत्वं अपूर्व्यः नविद्यते पूर्वंयस्मात्तत्पानमपूर्वं तदर्हतीत्यपूर्व्यः तादृशः अतएवप्रथमः इतर- देवेभ्यः पूर्वभूतःसन् सोमानांपीतिंपानमर्हसि प्राप्नोषि सुतानामभिषवकृतानांसोमानां पीतिंपानम- र्हसि यत्र यत्राभिषवोऽस्ति तत्रसर्वत्रनियमेनपिबसीत्यर्थः पूर्वंप्राथम्याभिपायेण इदानींतुसर्वत्रसोम- वतियागे अस्यपानमस्तीतिज्ञापयितुंपृथगभिधानं नकेवलं सोमपानमात्रं उतोअपितु विहुत्मतीनां विशेषेण होमवतीनां आह्वानवतीनांवा जुहोतेःसंपदादिलक्षणोभावेक्विप् ततोमतुब् ङीपौ ववर्जुषी- णां अनभिमतपापंवर्जयन्तीनां वर्जयतेर्लिटः कसङीप्संप्रसारणत्वानि विशांऋत्विग्यजमानरूपाणां प्रजानांसंबन्धिहविः स्वीकरोषीतिशेषः किंच तेषांयष्टृणां विश्वाइतधेनवः सर्वाअपिगावः तेत्वदर्थं- आशिरं आश्रयणद्रव्यं क्षीरं दुह्रे दुहन्ति स्वयमेव कर्तरि नदुहस्नुनमामिनियगभावः लोपस्तआत्मनेप- देप्वितितलोपः बहुलंछन्दसीतिरुट् तथा आशिरं घृतं उपस्तग्णाभिवारणाद्याश्रयणाय योग्यंकरणं- द्रव्यंदुह्रते ॥ ६ ॥

स्तीर्णंबर्हिरितिनवर्चंद्वितीयंसूक्तम् पारुच्छेपमात्यष्टं पूर्वत्रतुशब्दाद्वायुदेवत्यं आवांरथइत्या- दिऋक्पंचकमैन्द्रं सप्तम्यष्टम्यावष्टी अत्रानुक्रमणिका—स्तीर्णंनवचतुर्थ्याद्याःपंचैन्द्भश्चोपान्त्येअ- ष्टीइति । सूक्तस्यविशेषविनियोगोलैंगिकः दशरात्रस्यषष्ठेहनिप्रउगशस्त्रे आद्यौतृचौ प्राकृतयोर्वा- यव्यैन्द्रवायव्ययोःस्थानेविनियुक्तौ षष्ठस्यप्रातःसवनइतिख्ण्डेसूत्रितम्स्तीर्णंबर्हिरितितृचाविति ।

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३