अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ॑न्त जा॒यवो॒ऽस्मे ते स॑न्तु जा॒यवः॑ ।
सा॒कं गाव॒ः सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते॑ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नवः॑ ॥
अत्र॑ । अह॑ । तत् । व॒हे॒थे॒ इति॑ । मध्वः॑ । आऽहु॑तिम् । यम् । अ॒श्व॒त्थम् । उ॒प॒ऽतिष्ठ॑न्त । जा॒यवः॑ । अ॒स्मे इति॑ । ते । स॒न्तु॒ । जा॒यवः॑ ।
सा॒कम् । गावः॑ । सुव॑ते । पच्य॑ते । यवः॑ । न । ते॒ । वा॒यो॒ इति॑ । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । न । अप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ ॥
हेइन्द्रवायू अत्राह अस्मिन्नेवयज्ञे अहेतिविनिग्रहार्थीयः मध्वोमधुरस्यमधुसदृशस्यवा तत् तस्य आहुतिं प्रदेयद्रव्यं वहेथेधारयतं यंसोमंअश्वत्थं पर्वतादिव्याप्तिप्रदेशेस्थितं जायवोजेतारोयजमानाः उपतिष्ठन्ति उपेत्यतिष्ठन्तिक्रयाद्यर्थं किंच अस्मे अस्माकं संबंधिनोजायवः जेतारः कर्मनिर्वहितार- स्तेऋत्विजःसन्तु समर्थाभवन्तु यज्ञंनिर्वहन्त्वित्यर्थः यद्वा तेप्रसिद्धाः प्रयोगकुशलाजायवः जेतारऋ- त्विजः अस्मेसन्तुनान्यस्य अत्रवहेथेइत्युक्तं कोत्रविशेषइतितत्राह—हेइन्द्रवायूअस्मिन्यज्ञेगावः धेन- वः साकंसहैवसुवते युष्मदर्थमेव क्षीरमुत्पादयन्ति दोग्ध्र्योभवन्तीत्यर्थः यद्वा गावः साकं सहैव सुवते अपत्यमुत्पादयन्ति त्व्द्दोहनार्थं आदादिकः ङित्त्वात्तास्यनुदात्तेदितिलसार्वधातुकानुदात्तत्वेधातुस्वरः किंच यवः जातावेकवचनंउपलक्षणमेतत् यवादिभिः पुरोडाशादिकंपच्यतेइत्यर्थः किंच हेवायो इन्द्र- च यतोगावएवंसुवते अतस्तेत्वदर्थाधेनवः नोपदस्यन्तिनोपक्षीणाभवन्ति रोगादिनाकृशानभवन्ति नकेवलमनुपक्षीणाः किंतु धेनवः युष्मत्प्रीणयित्र्योगावः नापदस्यन्ति चौराद्युपहारैरुपक्षीणानष्टान- भवन्ति ॥ ८ ॥