मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् ५

संहिता

इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ ।
अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥

पदपाठः

इ॒मा । ते॒ । वा॒जि॒न् । अ॒व॒ऽमार्ज॑नानि । इ॒मा । श॒फाना॑म् । स॒नि॒तुः । नि॒ऽधाना॑ ।
अत्र॑ । ते॒ । भ॒द्राः । र॒श॒नाः । अ॒प॒श्य॒म् । ऋ॒तस्य॑ । याः । अ॒भि॒ऽरक्ष॑न्ति । गो॒पाः ॥

सायणभाष्यम्

हेवाजिन्नश्व तेसंबंधीन्यवमार्जनान्यंगसंशोधकानि स्थानानीमाइमानिउक्तानिद्युलोकादीनि किंच सनिर्यातु यागसंभक्तुस्तवेमा इमानिशफानांनिधाना निधानानि स्थानानि संचारप्रदेशाइत्य- र्थः किंचात्रैवतेतवभद्राः भंदनीयाः कल्याणीः रशनाग्रीवादिषुसंयुक्ताःरज्जूरत्रापश्यं एषुक्तेषुस्थाने- ष्वपश्यं रशनाविशेष्यन्ते यागोपाः गोपयित्र्योरशनाः ऋतस्यसत्यभूतस्य यज्ञसाधनस्यवाश्वस्य कर्मणिषष्ठी ऋतमभिरक्षंति अभितःपालयन्ति ताअपश्यं दृष्टवानस्मि यद्वा इमातेतवावमार्जनानि अङ्गप्रक्षालनसाधनान्युदकानि इमानि सनितुस्तव शफनांनिधानानि देवयजनभूमयः संचारप्रदे- शावा अत्रास्मिन्देवयजनस्थाने यारशनाःगोपास्तवपालयितारोरा जपुरुषाः ऋत्विजोवाऋतस्यसं-बंधिनः अभिरक्षंति ताअपश्यम् ॥ ५ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११