न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः ।
ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥
न॒हि । नु । वः॒ । म॒रु॒तः॒ । अन्ति॑ । अ॒स्मे इति॑ । आ॒रात्ता॑त् । चि॒त् । शव॑सः । अन्त॑म् । आ॒पुः ।
ते । धृ॒ष्णुना॑ । शव॑सा । शू॒शु॒ऽवांसः॑ । अर्णः॑ । न । द्वेषः॑ । धृ॒ष॒ता । परि॑ । स्थुः॒ ॥
हेमरुतः वःशवसोयुष्माकंसबन्धिनोबलस्य अन्तमवसानं अन्ति अन्तिके आरात्तात् चित् दूरादपि यद्वा चिदितिकुत्सायां अत्यन्तदूरात् अस्मे अस्मासुमध्येएकेपि नुक्षिप्रंनह्यायुः नैवखलुप्राप्नुवन्ति स- न्निधावसन्निधौचनप्राप्नुवन्तीत्यर्थः अथपरोक्षेप्राप्तबलत्वमाह—तेखलुमरुतोधृष्णुनाधर्षकेण शवसा- बलेनशूशुवांसोवर्धमानाः अतएवधृषतापराभिभावकेनसामर्थ्येनद्विषोद्वेष्टॄन् परिष्ठुःपरिभवन्तिवशी- कुर्वन्ति तत्रदृष्टान्तः—उर्णोन उदकमिव यथाउदकंस्वविरोधिरजआदिकमभिभवतितद्वत् यस्मादेवं- तस्मात् शवसोन्तंनापः ॥ ९ ॥ वयमद्येत्येतांदशमींअस्तमितेआदित्येजपेत् तथाचसूत्रम्—वयमद्येन्द्रस्यप्रेष्ठाइत्यस्तंयात्यादित्यइ- तिपाठस्तु ।