ज॒घ॒न्वाँ इ॑न्द्र मि॒त्रेरू॑ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् ।
प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यम् ॥
ज॒घ॒न्वान् । इ॒न्द्र॒ । मि॒त्रेरू॑न् । चो॒दऽप्र॑वृद्धः । ह॒रि॒ऽवः॒ । अदा॑शून् ।
प्र । ये । पश्य॑न् । अ॒र्य॒मण॑म् । सचा॑ । आ॒योः । त्वया॑ । शू॒र्ताः । वह॑मानाः । अप॑त्यम् ॥
हेइन्द्र हरिवः हरिभ्यांतद्वन् त्वंचोदप्रवृद्धः चोदनैःस्तोत्रैःप्रवृद्धःसन् अदाशून् अदातॄन् मित्रेरून्- मित्राणांयजमानांईरयितॄन् बाधकान् तद्वैरिणांमित्रत्वंगच्छतोवाजघन्वान् हतवानसि किञ्च येअर्य- मणंदातारंत्वात्वांप्रपश्यन् पश्यन्ति तेनराः आयोर्मनुष्यस्याध्वर्य्वादेः हविर्लक्षणान्नस्यवा सचासह- शूर्ताः क्षिप्राः हविः प्रदानेत्वरमाणाः त्वयाअपत्यंकुलस्यपालयितारंपुत्रंवहमानायेसन्ति तेप्रपश्यन् यद्वा येअर्यमणंत्वांपश्यन्तितेएवंभवन्ति यद्वा येनराअर्यमणंयंकिंचिद्दातारं पश्यन् पश्यन्तः त्वामय- जन्त अर्योमनुष्यस्यसचासहायभूताः त्वयाशुर्ताः क्षिप्रावर्जिताः अपत्यंपुत्रंवहमानायेसन्ति तान् ज- घन्वान् भवेत्यर्थः ॥ ६ ॥