मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८०, ऋक् ७

संहिता

व॒यं चि॒द्धि वां॑ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् ।
अधा॑ चि॒द्धि ष्मा॑श्विनावनिन्द्या पा॒थो हि ष्मा॑ वृषणा॒वन्ति॑देवम् ॥

पदपाठः

व॒यम् । चि॒त् । हि । वा॒म् । ज॒रि॒तारः॑ । स॒त्याः । वि॒प॒न्याम॑हे । वि । प॒णिः । हि॒तऽवा॑न् ।
अध॑ । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अ॒नि॒न्द्या॒ । पा॒थः । हि । स्म॒ । वृ॒ष॒णौ॒ । अन्ति॑ऽदेवम् ॥

सायणभाष्यम्

वयंचिद्धि वयमपिजरितारः तवस्तोत सत्याःसत्यफलाःसन्तोविपन्यामहेविविधंस्तुमः पणिः पणाधारोद्रोणकलशोविहितवान् स्थापितरसवानासीत् यद्वा पणिर्वणिक् लुब्धकः अयष्टाहितवान् नियतधनोधनाढ्योप्ययष्टा वि वियुज्यतां उपसर्गश्रुतेर्योग्यक्रियाध्याहारः अध अपिच चिद्धिष्मए- तेत्रयःपूरणाः हेअश्विनौ अनिन्द्याप्रशस्यनामैतत् हेप्रशस्यौवृषणौ हेकामानांवर्षितारौ युवां अन्ति- देवंदेवानामन्तिके पाथः सोमंपिबथः यद्वा अन्तिकेवर्तमानं देवान्प्राप्नुवानं सोममितियोज्यम् ॥ ७ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४