मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८१, ऋक् २

संहिता

आ वा॒मश्वा॑स॒ः शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्या॑ः ।
म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो॑ अ॒श्विना॑ वहन्तु ॥

पदपाठः

आ । वा॒म् । अश्वा॑सः । शुच॑यः । प॒यः॒ऽपाः । वात॑ऽरंहसः । दि॒व्यासः॑ । अत्याः॑ ।
म॒नः॒ऽजुवः॑ । वृष॑णः । वी॒तऽपृ॑ष्ठाः । आ । इ॒ह । स्व॒ऽराजः॑ । अ॒श्विना॑ । व॒ह॒न्तु॒ ॥

सायणभाष्यम्

अश्विना अश्विनौशोभनाश्वयुक्तौ वांयुवां अश्वासः युष्मदीयाइहास्मिन्यज्ञेआवहन्तु प्रापयन्तु अवशिष्टान्यश्वविशेषणानि कीदृशास्ते शुचयः शुद्धादीप्तावा पयस्याः वृष्ट्युदकस्य पातारः वात- रंहसः वायुवेगाः दिव्याः दिविभवाः अत्याः अतनशीलाः मनोजुवः मनोजवाः वृषणोवर्षकायुवा- नइत्यर्थः वीतपृष्ठाःकान्तपृष्ठाः वपुष्मन्तइत्यर्थः स्वराजः स्वयमेवराजमानाः ईदृशाः वहन्तु ॥ २ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५