किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न ।
यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमि॑न्द्रामरुतो दधात ॥
किम् । ऊं॒ इति॑ । नु । वः॒ । कृ॒ण॒वा॒म॒ । अप॑रेण । किम् । सने॑न । व॒स॒वः॒ । आप्ये॑न ।
यू॒यम् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । अ॒दि॒ते॒ । च॒ । स्व॒स्तिम् । इ॒न्द्रा॒म॒रु॒तः॒ । द॒धा॒त॒ ॥
हेदेवाः वोयुष्माकंनुअद्येदानींकिमुकृणवाम किंखलुकर्तुंशक्रवाम नकिमपीत्यर्थः तथाअपरेणाअप- रकालभाविनाकर्मणाकिंकर्तुंशक्ताः तथाहेवसवोवासयितारोदेवाः सनेनसनातनेन आप्येन आप्तव्येन कर्मणायुष्माकंकिंकर्तुशक्ताः सर्वदापियुष्मदनुगुणंपरिचरणंकर्तुंन्शक्ताइत्यर्थः हेमित्रावरुणौ हेअदिते हेइन्द्रामरुतः देवताद्वन्द्वेचेतिपूर्वंपदस्यानङ् तेचसर्वेयूयंस्वस्तिंअविनाशंनोस्मभ्यं दधात दत्तप्रयच्छ त लोटितस्यङित्त्वाभावेनातोलोपाभावः ॥ ३ ॥