अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न ।
यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥
अ॒ञ्जन्ति॑ । त्वाम् । अ॒ध्व॒रे । दे॒व॒ऽयन्तः॑ । वन॑स्पते । मधु॑ना । दैव्ये॑न ।
यत् । ऊ॒र्ध्वः । तिष्ठाः॑ । द्रवि॑णा । इ॒ह । ध॒त्ता॒त् । यत् । वा॒ । क्षयः॑ । मा॒तुः । अ॒स्याः । उ॒पऽस्थे॑ ॥
वनस्पते खदिरपलाशादिलक्षण हे यूप अध्वरे यज्ञे देवयन्तो देवान् कामयमाना अध्वर्य्वादयो दैव्येन मधुना देवसम्बन्धिना मधुना घृतेन । एतद्वै मधु दैव्यं यदाज्यमित्याम्नानात् ऐ ब्रा २-२- । तेन घृतेन त्वामञ्जन्ति । त्वयि घृतं सिञ्चन्तीत्यर्थः । यत् यदि त्वमूर्ध्वस्तिष्थाः । उन्नतस्तिष्ठसि । यद्वा दिव मातुरस्या मातृभूतायाः पृथिव्या उपस्थ उत्सङ्गे ते क्षयो निवासः । यदूर्ध्वस्तिष्ठसि यदि वा भूमौ शयानो वर्तसे उभयथापि त्वमिहास्मासु द्रविणा धनानि धत्तात् धेहि ॥ ब्राह्मणेनेयमृग्व्याख्याता । अञ्जन्ति त्वामध्वरे देवयन्त इत्यन्वाहाध्वरे ह्येनं देवन्तोऽञन्ति वनस्पते मधुना दैव्येनेत्ये तद्वै मधु दैव्यं यदाज्यं यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थ इति यदि च तिष्ठासि यदि च शयासै द्रविणमेवास्मासु धत्तादित्येव तदाह । ऐ ब्रा २-२ । इति तथा च निरुक्तमपि । अञ्जन्ति त्वामध्वरे देवान्कामयमाना वनस्पते मधुना दैव्येन च घृतेन च यदूर्ध्वः स्थास्यसि द्रविणानि च नो दास्यसि यद्वा ते कृतः क्षयो मातुरस्या उपस्थ उपस्थाने नि ८-१८ । इति अञ्जन्ति । अञ्जू व्यक्तिकान्तिगतिम्रक्षणेषु । रुधादित्वात् श्नम् । तस्य लटि झेर्ङित्त्वादनिदितामित्युपधालोपः श्नसोरल्लोप इत्यल्लोपः प्रत्ययस्वरेण मध्योदातः । त्वाम् । आमि युष्मच्छब्दत्य त्वमवेकवचन इति त्वादेशः । द्वितीयायां चेत्याकारः । एकादेश उदात्तेनोदात्त इत्येकादेशस्योदात्तत्वम् । अध्वरे न विद्यते ध्वरो हिंसा यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते नञ्सुभ्यामित्युत्तरपदान्तोदात्ततं देवयन्तः । देवानात्मन इच्छन्तः । सुप आत्मन इति क्यच् । क्यचि चेतीत्वं अकृत्सार्वधातुकयोरिति दीर्घत्वं च न छन्दस्यपुत्रस्येत्यनेन प्रतिषिध्यते । तदन्ताच्छत्प्रत्ययः शपः पित्त्वल्लसार्वधातुकस्यरेण जानुदात्तत्वे कृते तयोरेकादेश उदात्तेनोदात्त इति क्यच एव स्वरः वनस्पते । आमन्त्रितस्य चेत्याद्युदात्तत्वम् । मधुना । फलिपाटिनमिमनीत्यादिना उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । दैव्येन देवाद्य ञञाविति यञ । ञित्त्वाद्वृद्धिः । यस्येति लोपः । ञित्त्वादाद्युदात्तः । तिष्ठाः । ष्ठा गतिनिवृत्तौ । लेटि सिप् । इतश्च लोप इदीकारलोपः । शप्त शित्त्वात् पाघ्रेत्यादिना तिष्ठादेशः । लेटोऽडाटावित्यडागमः । यच्छब्दयोगान्निः घाताभावः । तिष्ठादेशस्याद्युदात्तत्वेन निपातितत्वादाद्युदात्तः । द्रविणा द्रुदक्षिभ्यामिनन्नितीनन्प्रत्ययः । सुपां सुलिगिति सुपो डादेशः । नित्वादाद्युदात्तः । इह । इदम् शब्दात्सप्यम्यर्थ इदमो ह इति हः । इदम इशितीशादेशः । शित्त्वात्सर्वादेशः । प्रत्यय स्वरः । धत्तात् । डुधाञ् धारणपोषयोरित्यस्य प्रार्थने लोट् । सिप् । तस्य सेर्ह्यपिच्चेति हिरादेशः । तुह्योः । पा. ७-१-३५ । इति तातङादेशः । श्नाभ्यस्तयोरात इत्याकाललोपः । दधस्तथोश्च । पा८-२-३८ । इति भष् भावः । जश्त्वचर्त्वे । निघातह् । वा । जादित्वादनुदात्तः । क्षयः । क्षियन्ति निवसन्त्यस्मिन्नित्यधिकरणि घः । क्षयो निवास इत्याद्युदात्तत्वम् । मातुः । नप्तृनेष्टृ इत्यादिना तृजन्तत्वेन निपातनादन्तोदातः । ऋत उदिति ङसः पूर्वपदयोरुकारः अस्याः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । उपस्थे । ष्ठा गतिनिवृक्तौ । अतश्चोपसर्ग इति कः । तत्पुरुषे तुल्यार्थेति मरुद्वृधा दित्वात्पूर्वपदांतोदात्तत्वम् ॥ १ ॥