मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् ९

संहिता

हं॒सा इ॑व श्रेणि॒शो यता॑नाः शु॒क्रा वसा॑ना॒ः स्वर॑वो न॒ आगु॑ः ।
उ॒न्नी॒यमा॑नाः क॒विभि॑ः पु॒रस्ता॑द्दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ॥

पदपाठः

हं॒साःऽइ॑व । श्रे॒णि॒ऽशः । यता॑नाः । शु॒क्रा । वसा॑नाः । स्वर॑वः । नः॒ । आ । अ॒गुः॒ ।
उ॒त्ऽनी॒यमा॑नाः । क॒विऽभिः॑ । पु॒रस्ता॑त् । दे॒वाः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ ॥

सायणभाष्यम्

शुक्रा शुक्राणि दीप्तानि वासांसि वसना आच्छादयन्तः स्वरवः स्वरुमन्तः श्रेणिश पङ्क्तिशो यतानाः प्रवर्तमानाः । अत्र दृष्टान्तः । हंसा इवेति । यथा नभसि पङ्किशः पतन्तो हंसाः शोभन्ते तद्वत् शोभमानास्ते यूपा नोऽस्मानागुः । प्रापुः । अपि च कवभिर्मेधाविभिरध्वर्व्यादिभिः पुरस्तादाहवनीयस्य पूर्वभाग उन्नीयमाना उच्छ्रीयमाणा देवा दीप्यमानास्ते यूपा देवानां पाथो देवानां स्थानमन्तरिक्षम् । पाथोऽन्तरिक्षं पथा व्याख्यातमिति यास्कः । पाथोनदीभ्यां ड्यङ् । पा. ४-४-१११ । इति सूत्रे पाथोऽन्तरिक्षमिति वृत्तिकारोऽप्यवादीत् । तादृशमन्तरिक्षमपियन्ति । प्राप्नुवन्ति । अध्वर्व्यादिभिरुच्छ्रीयमाणा यूपा अतिदैर्घ्यादन्तरिक्षं व्याप्य वर्तन्त इत्यर्थः । हंसा इव । इवेन विभक्त्यलोप इति वचनात्पूर्वपदस्वरः । श्रेणितः । बह्वल्पार्थदिति शस् । प्रत्ययस्वरः । श्रेणिशः । बहुल्पार्थादिति शस् । प्रत्ययस्वरः । शुक्रा । शुच दीप्तावित्यस्मादृज्रेन्द्राग्रेत्यादिना रन्प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । आगुः । इण् गतौ । अस्माल्लुङ् रूपम् । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः