आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषम् ।
आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत ॥
आ । जु॒हो॒त॒ । सु॒ऽअ॒ध्व॒रम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् ।
आ॒शुम् । दू॒तम् । अ॒जि॒रम् । प्र॒त्नम् । ईड्य॑म् । श्रु॒ष्टी । दे॒वम् । स॒प॒र्य॒त॒ ॥
ऋत्विजो यजमानः प्रेरयति । हे ऋत्विजः पावकशोचिषं शोधकदीप्तिं शीरं काष्ठेष्वोधीषु जानुशायिनं स्वध्वरं शोभनयज्ञोपेतमिममग्निमाजुहोत । आहुतिभिरा समन्तात्तर्पयत । अपि च । आशुं कर्मणि व्याप्तं दूतमाह्वानकारित्वेन देवानां दूतमजितं क्षिप्रं गन्तारं प्रत्नं पुरातनमीड्यं स्तोतव्यं देवं द्योतमानमिममग्निं श्रुष्वी सपर्यत । श्रुष्टीति क्षिप्रनामेति यास्कः । क्षिप्रं पूजयत । जुहोत । हु दानादनयोः । अस्माद्धातोर्लोट् । जुहोत्यादिभ्यः । श्लुरिति शपः श्लुः । श्लाविति द्विर्वचनम् । लोटो लङ्वदिति लङ्वद्भावे तस्थस्थमिपामितिथस्य तादेशः । छन्दसीत्यनुवृत्तौ तस्य तत्प्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । स्वध्वरम् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्वत्वम् । शीरम् । शीङ् स्वप्ने । अस्माद्धातोः स्फायितञ्चीत्यादिना रक्प्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । पावकशोचिषमित्यत्र पवनं पावः शुद्धिः । तं कायतीति पावकः । आतोऽनुपसर्गे कः । प्रत्ययस्वरः । बहुव्रीहौ प्रकृत्या पूर्वपदमिति पूर्वपद प्रकृतिस्वरत्वम् । आशुम् । आशूव्याप्तौ । अस्माद्धातोः कृवासाजिमित्यादिना उण् । उपधावृद्धिः । प्रत्ययस्वरः । अजिरं आज गतिक्षेपणयोरित्यस्माद्धातोरजिरशिशिरशिथिलेति किञ्च् प्रत्ययान्तत्वेन निपातनादन्तोदात्तत्वम् । प्रत्नम् । प्रगस्यछन्दसि गलोपश्च । पा. ४-३-२३-२ । इति गलोपः । चकारात् त्न प्रत्ययः । प्रत्ययस्वरः । ईड्यम् । ईड स्तुतौ अस्माण्ण्यक् । ईडावन्देत्यादिनाद्युदात्तत्वम् । सपर्यत । सपरशब्दात्कण्ड्वादिभ्यो यक् पूजायां वत्रते । लोण्मध्यमपुरुषबहुवचनम् । शप् । अतो गुण इति पूर्वरूपत्वम् । निघातः ॥ ८ ॥