त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजा॑ः ।
त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥
त्वत् । हि । पु॒त्र॒ । स॒ह॒सः॒ । वि । पू॒र्वीः । दे॒वस्य॑ । यन्ति॑ । ऊ॒तयः॑ । वि । वाजाः॑ ।
त्वम् । दे॒हि॒ । स॒ह॒स्रिण॑म् । र॒यिम् । नः॒ । अ॒द्रो॒घेण॑ । वच॑सा । स॒त्यम् । अ॒ग्ने॒ ॥
सहसः पुत्र बलस्य पुत्र हे अग्ने देवस्य देवनशीलस्य कर्मकरणप्रवृत्तस्य यजमानस्य त्वत् त्वत्तः सकाशात्पूर्वीः प्रभूता ऊतयो विघ्नपरिहारेण कर्म परिपालनादिरूपा रक्षा वि यन्ति हि । विविधं गच्छन्ति खलु । शमिमं यजमानं प्राप्नुवन्ति । तथा वाजा अन्नानि वियन्ति । एनं यजमानं प्राप्नुवन्ति । किञ्च हे अग्ने त्वं सहस्रिणं सहस्रसंख्याकं रयिं धनं नोऽस्मभ्यं देहि । तथाद्रोघेण द्रोहरहितेन पापशून्येन वचसा वाक्येन युक्तं सत्यं सत्यशीलं सन्मार्गे प्रवर्तमानंपुत्रं च देहि । प्रयच्छ ॥ त्वत् । युष्मच्छब्दस्य पञ्चम्येकवचने त्वादेशः । ङ सेरेकवचनस्य च । पा. २-२-३२ । इत्यदादेशः । एकादेशस्वरः । पुत्र सहसः । परमपिछन्दसीति पराङ्गवद्भावाद्द्वयोः सर्वानुदात्तत्वम् । देहि । डुदाञ् दान इत्यस्य लोटि घ्वसोरेद्भाविति धातोरेत्वमभ्यासलोपश्च । निघातः । आद्रोघेण । द्रुह जिघांसायाम् । घञ् । द्रोघः । घकारश्छान्दसः । नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वं ॥ ६ ॥