तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म ।
त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥
तुभ्य॑म् । द॒क्ष॒ । क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो । यानि॑ । इ॒मा । देव॑ । मर्ता॑सः । अ॒ध्व॒रे । अक॑र्म ।
त्वम् । विश्व॑स्य । सु॒ऽरथ॑स्य । बो॒धि॒ । सर्व॑म् । तत् । अ॒ग्ने॒ । अ॒मृ॒त॒ । स्व॒द॒ । इ॒ह ॥
दक्श समृद्धतया सामर्थोऽपेत कविक्रतोऽतीन्द्रियविषयप्रज्ञोपेत सर्वज्ञ देव दीप्यमान हे अग्ने मर्तासो यजमाना वयं तुभ्यं त्वदर्थं यानीमा यानीमेमानि हवींष्यध्वरे यज्ञेऽकर्म । हविस्त्यागमकार्ष्म । त्वं च सुरथस्य शोभनयानोपेतस्य विश्वस्य सर्वस्य यजमानस्य बोधि । गोपायिता भवामीति बुध्यस्य । हे अमृत मरणधर्मरहिताग्न इहास्मिन्कर्मण्यस्माभिर्दत्तं तत्सर्वं हविः स्वद । आस्वादय ॥ अकर्म । डुकृञ् करण इत्यस्य लङ् छन्दस्युभयथेति मसाअर्धधातुकत्वेन ङुत्वाभावाद्गुणः । यद्वृत्तयोगादनिघातः । बोधि । बुध अवगमने । छन्दसि लुङ्गेति लोडर्थे लुङ् । तिङां तिङो भवन्तीति सिपस्तादेशः । दीपजनभ्धेत्यादिना कर्तरि चिण् । चिणो लुगिति तप्रत्ययस्य लोपः । अडभावश्छान्दसः स्वद । स्वद आस्वादने । अन्तर्भावितण्यर्थः । लोटि रूपम् । निघातः ॥ ७ ॥