प्र पी॑पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे॑ ।
दे॒वेभि॑र्देव सु॒रुचा॑ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ॥
प्र । पी॒प॒य॒ । वृ॒ष॒भ॒ । जिन्व॑ । वाजा॑न् । अग्ने॑ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒दोघे॒ इति॑ सु॒ऽदोघे॑ ।
दे॒वेभिः॑ । दे॒व॒ । सु॒ऽरुचा॑ । रु॒चा॒नः । मा । नः॒ । मर्त॑स्य । दुः॒ऽम॒तिः । परि॑ । स्था॒त् ॥
वृषभ कामानां वर्षिहर्हे अग्ने त्वं नोऽस्माकं प्रपीपय । अभिलषित फलानि वर्धय । वाचानन्नानि च जिन्व । प्रयच्छ । किञ्च देव दीप्यमान हे अग्ने सुरुचा शोभनदीप्त्या रुचानः शोभमानस्त्वं देवेभिर्यजनीयदैवैः सहितोऽस्माकं रोदसी इमे द्यावापृघिवौ सुदोघे वृष्विद्वाराभिमतफलप्रदानेन सुष्ठु दोग्ध्र्यौकुरु । तथा मर्त्यस्य शत्रोर्दुर्मतिर्दुष्टबुद्धिप्रयुक्तोऽभिभवोनोऽस्मान् मा परिष्ठात् । परितो मा गच्छतु ॥ पीपय । पा पान इत्येतस्य ण्यन्तस्य लुङ् चङ् द्विर्वचनाभ्यासदीर्घौ । सिपो लोपश्छान्दसः । जिन्व । इवि जिवि धिवि प्रीणनार्थाः । एतस्य लोटि इतित्त्वान्नुम् । शप् । अतो हेरिति हेर्लुक् । आमन्त्रितस्याविद्यमानवत्वेन अतिङ उत्तरत्वाभावान्न निघातः । सुदोघे । दोहनम् । दोघः भावे घञ् । कुत्वं छान्दसम् । आद्युदात्तं द्व्यच् छन्दसीत्युत्तरपदाद्युदात्तत्वम् । दुर्मतिः । मनु अवबोधने । मन्यत इतिमतिर्बुद्धिः । कर्तरि क्तिच् । कुष्टा बुद्धिः । अव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ६ ॥