तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा॑य सन्त्य ।
ऋषि॒ः श्रेष्ठ॒ः समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥
तुभ्य॑म् । स्तो॒काः । घृ॒त॒ऽश्चुतः॑ । अग्ने॑ । विप्रा॑य । स॒न्त्य॒ ।
ऋषिः॑ । श्रेष्ठः॑ । सम् । इ॒ध्य॒से॒ । य॒ज्ञस्य॑ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥
सन्त्य यष्टृभिः सम्भजनीय यद्वा यष्टृभ्यः फलप्रद हे अग्ने विप्राय मेधाविने तुभ्यं त्वदर्थं घृतश्चुतः घृतक्षरणयुक्ताः स्तोकाः सन्ति । ऋषिरतीन्द्रियार्थदर्शी अत एव श्रेष्ठः सर्वातिशायी त्वं समिध्यसे । घृतयुक्तमेदोबिन्दुभिः सम्यक् प्रज्याल्यसे । स त्वं यज्ञस्यास्माभिः क्रियमाणस्य पशुयागस्य प्राविता प्रकर्षेणपालको भव ॥ तुभ्यम् । युष्मत्च्छब्दस्य ङयि तुभ्यमह्यौ ङ्यि । पा. ७-२-९५ ॥ इति तुभ्यादेशः । ङी प्रथमयोरमिति ङीरमादेशः । ङयि चेत्याद्युदात्तत्वम् । सन्त्य । षण सम्भक्तौ षणु दाने वा । क्तिच् क्तौ च संज्ञायामिति क्तिच् । न क्तिचि दीर्घश्चेति दीर्घनलोपाभावः । सन्तौ भवो भवे छन्दसीति तत्र साधुरिति वा यत्प्रत्ययः । यस्येति लोपः । आमन्त्रितत्वान्निघातः । इध्यसे । ञि इन्धी दीप्तौ । कर्मणि यक् । कित्त्वादनुनासिकलोपः । निघातः । प्रविता अव रक्षणादिषु । तृचि रूपम् । समासस्वरः । भवनिघातः ॥ ३ ॥