नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत ।
अग्ने॑ सुदी॒तिमु॒शिज॑म् ॥
नि । त्वा॒ । द॒धे॒ । वरे॑ण्यम् । दक्ष॑स्य । इ॒ळा । स॒हः॒ऽकृ॒त॒ ।
अग्ने॑ । सु॒ऽदी॒तिम् । उ॒शिज॑म् ॥
उक्तार्थोऽनयर्चा विव्रियते । सहस्कृत मथनाख्येन बलेन नोष्पन्न हे अग्ने सुदीतिं शोभनदीप्तियुक्तमुशिजं पुरोडाशादि हविः कामयमानम् । यद्वा कर्मार्थिभिः काम्यमानम् । अत एव वरेण्यं तैर्वरणीयं त्वा एवं विधं त्वां दक्षस्य दुहितेळा वेद्यादिलक्षणा भूमिर्नि दधे । अग्निहोत्रादिकर्मसमृध्यर्थं नितरां दधार ॥ इळा । ईड स्तुतौ । पुम्सि संज्ञायामित्यत्र प्रायिकवचनात् स्त्र्यर्थेऽपि घत्पत्यः । ह्रस्वश्छान्दसः । संज्ञापूर्वकस्य विधेरनित्यत्वादगुणः ईड्यन्ते सुयन्तेऽस्यां यजमानैर्देवा इतीळा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । प्रत्ययस्वरः । उशिजम् । वश कान्तावित्यस्माद्वशः किच्चेतीजिप्रत्ययः । कित्त्वात्सम्प्रसारणम् । वष्टि हविः कामयते उश्यते काम्यते कर्मार्थिभिरिति वा उशिक् अग्निः । प्रत्ययस्वरः ॥ १० ॥