यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह ।
ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥
यत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॒रिति॑ । चि॒कि॒त्वः॒ । अवृ॑णीमहि । इ॒ह ।
ध्रु॒वम् । अ॒याः॒ । ध्रु॒वम् । उ॒त । अ॒श॒मि॒ष्ठाः॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥
होतर्होमनिष्पादक चिकित्वः कर्मविषयज्ञानवन् हे अग्ने अद्येदानीं प्रयति प्रवर्तमानेऽस्मिन् ज्योतिष्टोमादौ यज्ञे त्वा त्वां यद्यस्मात्कारणादवृणीमहि तद्विषयं वरणमकुर्म तस्मात्तदैशस्त्वमिह कर्मणि देवान् ध्रुवमायाः । ध्रुवं यथा भवति तथास्माभिर्दत्तानि हवींषि प्रापय । उत अपि चाशमिष्ठाः । हविः स्वीकरणात्तृप्तैर्देवैः शान्तस्त्वमकारिष्ठा । अथ प्रजानन्निमं यज्ञं सम्यक् जानन्विद्वान्यत्किञ्चित्सर्वं जानानस्त्वं सोममस्माभिः क्रियमाणमिममभिषुतं सोममभिलक्ष्योप याहि । समीप आगच्छ ॥ प्रयति । इण् गतावित्यस्य शतरि रूपम् । शतुरनुम इति विभक्तेरुदात्तत्वः । अवृणीमहि । वृञ् वरणे । क्र्यादित्वात् श्ना । लङ्युत्तमबहुवचन ईहल्यघोरितीत्वम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वादनिघातः । अयाः । या प्रापण इत्यस्य लङि सिपि रुपम् । निघातः । अशमिष्थाः । शमु उपशमन इत्यस्य ण्यन्तस्य कर्मणि लुङे स्यसिच् सीयुट् । पा. ६-४-६२ । इति विकल्पेनेडागमः । तस्यासिद्धत्वाण्णेरनिटिति णिलोपः । निघातः । प्रजानन् । ज्ञा अवबोधने । शतरि रूपम् । याहि । यातेर्लोटि रूपं ॥ १६ ॥