त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथ॒ः सदां॑सि ।
अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥
त्रीणि॑ । रा॒जा॒ना॒ । वि॒दथे॑ । पु॒रूणि॑ । परि॑ । विश्वा॑नि । भू॒ष॒थः॒ । सदां॑सि ।
अप॑श्यम् । अत्र॑ । मन॑सा । ज॒ग॒न्वान् । व्र॒ते । ग॒न्ध॒र्वान् । अपि॑ । वा॒युऽके॑शान् ॥
हे राजानाविन्द्रावरुणौ विदथेऽस्मिन्यज्ञे विश्वानि व्याप्तानि पुरूणि यजनीयैः सोमादिभिः पूर्णानि त्रीणि सदांसि सवनानि परि भूशथः । सर्वतोऽलंकुरुथः । हे इन्द्र त्वं जगन्वान् । यज्ञं प्रति गतवानसि । अपि सम्भावनायाम् । यतोऽहमत्र व्रते यज्ञे वायुकेशान् वायुवच्चलनरश्मीन् गन्धर्वान् सोमरक्शकान् स्वानभ्राजादीन् मनसापश्यम् । ते च स्वानभ्राजादयस्तैत्तिरीयके स्पश्टमभिहिताः । स्वान भाजांघारे बंभारे हस्त सुहस्त क्रुशानवेते वः सोमक्रयनास्तान्रक्षध्वं मा वो दभन् । स. १-२-७ । इति । भूषथः । भूष अलङ्कार इत्यस्य लटि रूपम् । अपश्यम् । दृश्र् प्रेक्शण इत्यस्य लङि रूपम् । पादादित्वादनिघातः । जगन्वान् । गमेः क्वसौ विभाषा गमहनविदविशामितीटो विकल्पितत्वादत्रेडभावः । मो नो धातोर्म्वोश्चेति मकारस्य नकारः । प्रत्ययस्वरः गन्धर्वान् । धृञ् धारण इत्यस्य गोशब्द उपपदे गवि गन् धृञो व इति वप्रत्ययः । तत्सन्नियोगेन गोशब्दस्य गनादेशः । प्रत्ययस्वरः ॥ ६ ॥