इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः ।
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥
इन्द्रः॑ । मधु॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । प॒त्ऽवत् । वि॒वे॒द॒ । श॒फऽव॑त् । नमे॑ । गोः ।
गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । हस्ते॑ । द॒धे॒ । दक्षि॑णे । दक्षि॑णऽवान् ॥
इन्द्र उस्रियायां क्षीरदध्यादिक्रमेणोत्स्राविण्यां भोगवत्यां गवि सम्भृतं सम्पादितं मधु क्षीरादि विदेद । अज्ञासीत् । ततस्तदर्थं पद्वत्पादयुक्तं शफवत्खुरोपेतं गोधनं विवेद । लेभे । कथं लब्धवानिति तदुच्यते । नमे गोः । गोरिति द्वितीयार्थे षष्ठी । पणिनामकैरसुरैरपहृतां गां नमे । अनितामकरोत् । तथा दक्षिणावानौदार्यवान्समर्थः स इन्द्रो गुहा गुहायां हितं गुह्यं प्रच्छन्नं अत एवाप्स्वन्तरिक्षे गूढं गूढचारिनं मायिनमसुरं दक्षिणे हस्ते दधे । दधार । अग्रहीदित्यर्थः । द्वितीयाष्टके । २-६-३ । श्रुधी हवमित्यस्मिन्वर्गे गुहा हितमित्येतत्सम्यगभ्यधायि । उस्रियायां प्रक्रिया सम्यक् पूर्वमेवावादि । विवेद । विद ज्ञाने विद्लृ लाभे । एतयोर्लिटि रूपम् । शफवत् । सह्फोऽस्यास्तीति मतुप् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । नमे । णमु प्रह्वत्व इत्यस्य लिटि रूपम् । द्विर्वचनस्य छन्दसि विकल्पितत्वादत्र द्विर्वचनाभावः । वाक्यभेदादनिघातः । गुह्यम् । गुहू संवरण इत्यस्माच्छंसिगुहिदुहिभ्यो वेतिवक्तव्यमिति क्यप् । कित्त्वादगुणः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । दधे । दधातेर्लिटि रूपम् । दक्षिणावान् । दक्ष वृद्धौ । द्रुदक्शिभ्यामिनन्नितीनन्प्रत्ययः । तदस्यास्तीति मतुप् । सम्हितायामन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः । नित्स्वरः ॥ ६ ॥