इन्द्रो॑ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तम् ।
अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ॥
इन्द्रः॑ । ह॒र्यन्त॑म् । अर्जु॑नम् । वज्र॑म् । शु॒क्रैः । अ॒भिऽवृ॑तम् ।
अप॑ । अ॒वृ॒णो॒त् । हरि॑ऽभिः । अद्रि॑ऽभिः । सु॒तम् । उत् । गाः । हरि॑ऽभिः । आ॒ज॒त॒ ॥
सोऽयमिन्द्रो हर्यन्त कमनीयमर्जुनं शुभ्रम् । शुभ्रत्वमुपपादयति । शुक्रैः शुभ्रैः क्षीरादिभिरभिवृतं ब्याप्तं वज्रं वेगवन्तं हरिभिः । हर्नत्येभिः सोमरसानिति हरयः । तैरद्रिभिर्ग्रावभिः सुतमभिषुतं सोममपावृणोत् । आवरणरहितमकरोत् । तथा च मन्त्रवर्णः । पूषा राजानमाघृणिरपगूळ्हं गुहा हितं अविन्दत् । ऋग्वे. १-२३-१४ । इति तथा गाः पणिभिरपहृता गा हरिभिरश्वैरुपेतः स इन्द्र उदाजत । विलान्निरगमयत् । अज्रुनम् । अर्ज षर्ज अर्जन इत्यस्मादर्जेर्णिलुक्चेत्युनन् । नित्स्वरः । अभिवृतम् । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । आजत । अज गति क्षेपणयोः । लङि व्यत्ययेनात्मनेपदम् । निघातः ॥ ५ ॥