म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ॥
म॒रुत्वा॑न् । इ॒न्द्र॒ । वृ॒ष॒भः । रणा॑य । पिब॑ । सोम॑म् । अ॒नु॒ऽस्व॒धम् । मदा॑य ।
आ । सि॒ञ्च॒स्व॒ । ज॒ठरे॑ । मध्वः॑ । ऊ॒र्मिम् । त्वम् । राजा॑ । अ॒सि॒ । प्र॒ऽदिवः॑ । सु॒ताना॑म् ॥
सजोषा इन्द्रेति मरुत्वतीयग्रहस्य याज्या । सूत्रितं च । सजोषा इन्द्र सगणो मरुद्भिरिति भक्षयित्वैतत्पात्रम् । आ. ५-१४ ॥ इति ॥
हे शूर बलवन् हे इन्द्र सजोषाः सङ्गतो देवैर्मरुद्भिः सगणो मरुद्भिरेव वृत्रहा वृत्रस्य हन्ता विद्वान्कर्मविषयाभिज्ञस्त्वं सोमं पिब । ततो नः शत्रून् जहि । मृधो हिंसकान् शत्रूनपनुदस्व । यद्वा मृधः । हिंस्यन्तेत्र प्राणिन इति मृधः सङ्ग्रामाः । तत्र वर्तमानान् शत्रूनपनुदस्व । अथानन्तरं नोऽस्माकं विश्वतः सर्वतोऽभयं कृणुहि । कुरु । सर्वतो भयरहितानस्मान्कुर्वित्यर्थः ॥ वृत्रहा । हन्तेर्ब्रह्मभ्रूण्णवृत्त्रेषु क्विप् । अभयम् । ञीभी भय इत्यस्मादेरच् । नञा समासे तस्य स्वरः । विश्वतः । पञ्चम्यास्तसिल् । लित्स्वरः ॥ १ ॥