इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥
इन्द्र॑ । म॒रु॒त्वः॒ । इ॒ह । पा॒हि॒ । सोम॑म् । यथा॑ । शा॒र्या॒ते । अपि॑बः । सु॒तस्य॑ ।
तव॑ । प्रऽनी॑ती । तव॑ । शू॒र॒ । शर्म॑न् । आ । वि॒वा॒स॒न्ति॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः ॥
हे मरुत्वो मरुद्भिस्तद्वन् हे इन्द्र त्वमिहास्मदीये यज्ञ आगत्य सोमं पाहि । पिब । यथा त्वं पूर्वं शार्याते शर्याते शर्यातेः पुत्रे तस्मिन्राजनि यज्ञं कुर्वाणे सुतस्याभिषुतं सोममपिबः तथात्रापि पिबेत्यर्थः । इन्द्रः शार्यातस्य यज्ञे सोमरसानपिबदित्येषोऽर्थः कौशीतके स्पष्टमुक्तः । तथा मन्त्रवर्णश्च । आस्मा रथं वृषपानेषु तिष्ठसि शार्यातस्य प्रभृता येशु मन्दसे । ऋग्वे. १-५१-१२ । इति । हे शुरेन्द्र तव संबन्धिनि शर्मन् शर्मणि निर्भाधस्थाने स्थिताः सुयज्ञाः सुष्ठुकृतयज्ञाः कवयो मेधाविनो यजमानाः प्रणिती तव हिविषां प्रणयनेन प्राअपणेन आ समन्ताद्विवासन्ति । त्वामेव परिचरन्ति । विवासतिः परिचरनकर्मा । शार्यते । शर्यातेरयमित्यर्थे तस्येदमित्यण् प्रत्ययः । अपिबः । यथायोगादनिघातः । अडागमस्वरः । प्रणीती । नयतेभार्वे क्तिन् । तादौ च निति कृतीति गतेः प्रकृतिस्वरत्वम् । सुपां सुलुगिति तृतीयायाः सवर्नदीर्घः । उपसर्गादसमासेऽपि णत्वं ॥ ७ ॥